वांछित मन्त्र चुनें

कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्द॒: किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥

अंग्रेज़ी लिप्यंतरण

kāsīt pramā pratimā kiṁ nidānam ājyaṁ kim āsīt paridhiḥ ka āsīt | chandaḥ kim āsīt praügaṁ kim ukthaṁ yad devā devam ayajanta viśve ||

पद पाठ

का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् । छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥ १०.१३०.३

ऋग्वेद » मण्डल:10» सूक्त:130» मन्त्र:3 | अष्टक:8» अध्याय:7» वर्ग:18» मन्त्र:3 | मण्डल:10» अनुवाक:11» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (का) क्या (प्रमा) प्रमाणरीति (प्रतिमा) प्रतिकृति-रूपरेखा (आसीत्) थी-है (किं निदानम्) क्या हेतु-क्या लक्ष्य था-है (किम्-आज्यम्-आसीत्) क्या घृत दीप्ति का साधन था या है (कः परिधिः-आसीत्) क्या सब ओर से धारण करनेवाला घेरा था या है (छन्दः-किम्-आसीत्) क्या छन्द था या है (प्र उगम्-उक्थं किम्) क्या प्रउग उक्थ था या है (यत्-विश्वेदेवाः) जब सारे विद्वान् (देवम्-अयजन्त) इष्टदेव का यजन करते थे या करते हैं ॥३॥
भावार्थभाषाः - उक्त ब्राह्मयज्ञ या शरीरयज्ञ की क्या प्रमारीति या रूपरेखा थी, क्या निदानहेतु या लक्ष्य था, क्या दीप्ति का साधन क्या परिधि या आवर्त्त था, छन्द कौन-प्रउग कौन-उक्थ कौन था, जबकि सारे देव इष्टदेव का यजन करते थे ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (का प्रमा प्रतिमा-आसीत्) तस्मिन्निर्माणयज्ञे का प्रमितिः प्रमाणरीतिस्तथा प्रतिमा प्रतिकृतिः खल्वासीत्-भवति वा (किं निदानम्) किं हेतुभूतं वस्तुलक्ष्यं वा भवति (किम्-आज्यम्-आसीत्) किं घृतं दीप्तिसाधनं भवति (कः परिधिः-आसीत्) कः परितो-धारक आवर्तो वा भवति (छन्दः किम् आसीत्) छन्दः-किं भवति (प्र उगम्-उक्थं किम्) प्रउगम्-उक्थं किं भवति (यत्-विश्वेदेवाः-देवम्-अयजन्त) यदा सर्वे देवा विद्वांस इष्टदेवं यजनीयं यजन्ति ॥३॥