वांछित मन्त्र चुनें

यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒: प्र ता॑र्यग्ने प्रत॒रं न॒ आयु॑: ॥

अंग्रेज़ी लिप्यंतरण

yathā ha tyad vasavo gauryaṁ cit padi ṣitām amuñcatā yajatrāḥ | evo ṣv asman muñcatā vy aṁhaḥ pra tāry agne prataraṁ na āyuḥ ||

पद पाठ

यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ । ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥ १०.१२६.८

ऋग्वेद » मण्डल:10» सूक्त:126» मन्त्र:8 | अष्टक:8» अध्याय:7» वर्ग:13» मन्त्र:8 | मण्डल:10» अनुवाक:10» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वसवः-यजत्राः) हे शरीर में बसानेवाले तथा श्रेष्ठ मार्ग में सङ्गत स्थिर करनेवाले वरुण आदि ! (गौर्यं चित् पदि सिताम्) सुन्दरी गौ को या शोभना वेदवाक्-मन्त्रवाणी को भी सर्वतः पादबद्धा पैरों में बन्धी या पदशः छन्दों में बन्धी वेदवाक्-मन्त्रवाणी को (यथा-अमुञ्चत) जैसे चरने के लिये किसान या प्रचार के लिये छोड़ देते हैं-पद पद खोलते विद्वान् ऐसे हमें मोक्ष में विचरने के लिये छोड़ दो (एव उ सु-अस्मत्-अंहः-वि मुञ्चत) ऐसे ही सुगमतया हमें पाप से छुड़ाओ ॥८॥
भावार्थभाषाः - शरीर में बसानेवाले बसाने के कारणभूत श्रेष्ठमार्ग देवयानमार्ग में सङ्गत कराने-कराने के निमित्तभूत देवगण इस शरीर-बन्धन से छुड़ा सकते हैं, मोक्ष में विचरण करने के लिये पाप से बचने पर, वैराग्य होने पर ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वसवः-यजत्राः) हे शरीरे वासयितारस्तथा श्रेष्ठमार्गे सङ्गमयितारो यूयं वरुणादयः ! (शौर्यं चित् परि सिताम्-यथा अमुञ्चत) गौरीं सुन्दरीमपि गां वाचं वेदवाचं वा “गौरी वाङ्नाम” [निघ० १।११] पादे बद्धां चरणाय तत्स्वामिनः यद्वा वेदवाचं पदशश्छन्दोबद्धां प्रचाराय यथा विद्वांसो मुञ्चन्ति तथा यूयं मुञ्चतास्मान् (एव-उ सु-अस्मत् अंहः-वि मुञ्चत) एवं हि सुष्ठु खल्वस्मान् अस्मत् “सुपां सुलुक्…” [अष्टा० ७।१।३९] इति द्वितीयाया विभक्तेर्लुक् “अंहसः पापात्-बन्धनात्” अत्रापि पञ्चमीविभक्तेर्लुक्-छान्दसः, विमुक्तान् कुरुत (अग्ने नः-आयुः प्रतरं प्र तारि) हे अग्रणायक परमात्मन् ! अस्माकमायुर्जीवनं प्रकृष्टतरं प्रवर्धय ॥८॥