वांछित मन्त्र चुनें

ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः । ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥

अंग्रेज़ी लिप्यंतरण

tā asya jyeṣṭham indriyaṁ sacante tā īm ā kṣeti svadhayā madantīḥ | tā īṁ viśo na rājānaṁ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan ||

पद पाठ

ताः । अ॒स्य॒ । ज्येष्ठ॑म् । इ॒न्द्रि॒यम् । स॒च॒न्ते॒ । ताः । ई॒म् । आ । क्षे॒ति॒ । स्व॒धया॑ । मद॑न्तीः । ताः । ई॒म् । विशः॑ । न । राजा॑नम् । वृ॒णा॒नाः । बी॒भ॒त्सुवः॑ । अप॑ । वृ॒त्रात् । अ॒ति॒ष्ठ॒न् ॥ १०.१२४.८

ऋग्वेद » मण्डल:10» सूक्त:124» मन्त्र:8 | अष्टक:8» अध्याय:7» वर्ग:10» मन्त्र:3 | मण्डल:10» अनुवाक:10» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ताः) वे कामवृत्तियाँ (अस्य) इस आत्मा की (ज्येष्ठम्-इन्द्रियं सचन्ते) ज्येष्ठ इन्द्रिय-मन को समवेत करती सङ्गत होती हैं (ताः-ईम् स्वधया मदन्तीः) वे ही रस से आत्मा को आनन्द देती हुई (आ क्षेति) प्राप्त होती हैं (ताः-विशः-न राजानं वृणानाः) प्रजाएँ जैसे राजा को वरण करती हुई आश्रय लेती हैं (वृत्रात्) आवरक देह से (बीभत्सुवः) भय करती हुई (अप-अतिष्ठन्) पृथक् हो जाती हैं ॥८॥
भावार्थभाषाः - कामवृत्तियाँ कुछ आत्मा का आश्रय लेती आत्मा से अनुभूत होती हैं, कुछ मन के साथ संगत होती हैं, कुछ आत्मा को आनन्द देतीं, कुछ देह के भय से पृथक्-पृथक् रहती हैं ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ताः) ताः कामवृत्तयः (अस्य) अस्यात्मनः (ज्येष्ठम्-इन्द्रियं सचन्ते) ज्येष्ठमिन्द्रियं मनः समवयन्ति (ताः-ईम् स्वधया मदन्तीः-आ क्षेति) ताः खलु रसेन-आनन्दरसेन “स्वधा वै रसः-स्वधायै त्वा रसाय त्वेत्येवैतदाह” [श० ५।१।३।७] आत्मानं हर्षयन्तीः प्रतिगच्छन्ति प्राप्नुवन्ति “क्षि निवासगत्योः” [तुदादि०] ‘विकरणव्यत्ययेन लुक् छान्दसः’ (ताः-विशः-न राजानं वृणानाः) ताः प्रजाः यथा राजानं वरयन्त्यः-आश्रयन्ति (वृत्रात्-बीभत्सुवः-अप-अतिष्ठन्) आवरकाद् देहाद् भयं कुर्वाणास्तस्मात् पृथग्भूताः तिष्ठन्ति ॥८॥