वांछित मन्त्र चुनें

इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् । हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥

अंग्रेज़ी लिप्यंतरण

idaṁ svar idam id āsa vāmam ayam prakāśa urv antarikṣam | hanāva vṛtraṁ nirehi soma haviṣ ṭvā santaṁ haviṣā yajāma ||

पद पाठ

इ॒दम् । स्वः॑ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒ऽका॒शः । उ॒रु । अ॒न्तरि॑क्षम् । हना॑व । वृ॒त्रम् । निः॒ऽएहि॑ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त॑म् । ह॒विषा॑ । य॒जा॒म॒ ॥ १०.१२४.६

ऋग्वेद » मण्डल:10» सूक्त:124» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:10» मन्त्र:1 | मण्डल:10» अनुवाक:10» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे शरीर में वर्तमान इन्द्रियगण ! (इदं स्वः) यह सुख मोक्षरूप (इदम्-इत्-वामम्-आस) यह ही वननीय है (अयं प्रकाशः) यह प्रकाशलोक प्रकाशमान मोक्ष (उरु-अन्तरिक्षम्) महान् अवकाशरूप है, न कि अन्धकार बन्धनरूप (निर् एहि) शरीर से निकल (वृत्रं हनाव) पापसम्पर्क को नष्ट कर, स्थिर साङ्कल्पिक सामर्थ्य को धारण कर (त्वा हविः सन्तं हविषा यजाम) तुझे ग्राह्य होते हुए को ग्राह्य साङ्कल्पिक सुख से सङ्गत होते हैं ॥६॥
भावार्थभाषाः - मोक्ष का इच्छुक जीवन्मुक्त जन अपने इन्द्रियगण को शरीर से बाहिर अपने साथ निकलने की प्रेरणा करता है, मोक्ष में उनके लिये साङ्कल्पिक स्थिर सुख मिलते हैं, आत्मा के साथ इन्द्रियशक्ति भी जाती है, ऐसा आया है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सोम) हे शरीरे वर्तमान ! इन्द्रियगण ! (इदं स्वः) इदं सुखं मोक्षरूपम् (इदम्-इत्-वामम्-आस) इदमेव वननीयमस्ति (अयं प्रकाशः-उरु-अन्तरिक्षम्) अयं प्रकाशलोकः-प्रकाशमानो मोक्षो महानवकाशरूपोऽस्ति न बन्धनरूपः (निर्-एहि) निः सर शरीरात् (वृत्रं हनाव) पापसम्पर्कं नाशयाव स्वरात्मा चेन्द्रियगणः स्थिरं साङ्कल्पिकं सामर्थ्यं धारय (त्वा हविः सन्तं हविषा यजाम) त्वां ग्राह्यं सन्तं ग्राह्येण साङ्कल्पिकेन सङ्गमनाय अन्तर्गतो णिजर्थः ॥६॥