वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: अग्निः छन्द: त्रिष्टुप् स्वर: धैवतः

पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ । शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥

अंग्रेज़ी लिप्यंतरण

paśyann anyasyā atithiṁ vayāyā ṛtasya dhāma vi mime purūṇi | śaṁsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi ||

पद पाठ

पश्य॑न् । अ॒न्यस्याः॑ । अति॑थिम् । व॒यायाः॑ । ऋ॒तस्य॑ । धाम॑ । वि । मि॒मे॒ । पु॒रूणि॑ । शंसा॑मि । पि॒त्रे । असु॑राय । शेव॑म् । अ॒य॒ज्ञि॒यात् । य॒ज्ञिय॑म् । भा॒गम् । ए॒मि॒ ॥ १०.१२४.३

ऋग्वेद » मण्डल:10» सूक्त:124» मन्त्र:3 | अष्टक:8» अध्याय:7» वर्ग:9» मन्त्र:3 | मण्डल:10» अनुवाक:10» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अन्यस्याः वयायाः) अन्य प्राणपद मुक्तिरूप शाखा के (अतिथिं पश्यन्) निरन्तर प्रापणशील परमात्मा को इधर की सृष्टिरूप शाखा में स्थित मैं आत्मा देखता हूँ (ऋतस्य पुरूणि धाम) अमृत सुख भरे अङ्गों को (विममे) विशिष्टता से निर्माण करता हूँ (असुराय पित्रे) प्राणप्रद पिता को (शंसामि) स्तुति करता हूँ (अयज्ञियात्) असङ्गमनीय जड़ संसार से (यज्ञियं भागं शेवम्-एमि) यज्ञिय सङ्गमनीय भजनीय अपने जैसे चेतन सुखरूप परमात्मा को प्राप्त होता हूँ ॥३॥
भावार्थभाषाः - सृष्टिरूप भोगमयी शाखा को छोड़कर मुक्तिरूप स्थिर जीवन देनेवाली शाखा में अमृत भोग है, वहाँ सङ्कल्पात्मक अभौतिक अङ्गों से सुख भोगा जाता है, अपने जैसे चेतन परमात्मा के आश्रय उसे प्राप्त करना चाहिये ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अन्यस्याः वयाया-अतिथिं पश्यन्) भिन्नायाः प्राणप्रदायाः मुक्तिरूपायाः शाखायाः “वयाः शाखा” [निरु० १।४] “वया शाखाः [ऋ० २।३५।८ दयानन्दः] निरन्तरं प्रापणशीलं परमात्मान-महमत्रत्यायां शाखायां सृष्टौ स्थितमहमात्मा पश्यामि (ऋतस्य पुरूणि धाम वि ममे) यः परमात्मा खल्वमृतस्य” “ऋतममृतमित्याहुः” [जै० २।१७] “बहूनि ह्यङ्गानि” “अङ्गानि वै धामानि” [श० ३।३।४।१४] विशिष्टतया मिमीते “शृण्वन् श्रोत्रं मन्वानो मनो भवति” [शतपथ १४।४।२।१७] सङ्कल्पात्मकानि निर्माति (असुराय पित्रे शंसामि) तं स्थिरप्राणप्रदं पितरम् “द्वितीयास्थाने चतुर्थी व्यत्ययेन” स्तौमि (अयज्ञियात्-यज्ञियं भागं शेवम्-एमि) असङ्गमनीयाद् जडात् संसारात् स्वसदृशं चेतनं सङ्गमनीयं भजनीयं सुखरूपं परमात्मानं प्राप्नोमि ॥३॥