वांछित मन्त्र चुनें

इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् । असो॑ हव्य॒वाळु॒त न॑: पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥

अंग्रेज़ी लिप्यंतरण

imaṁ no agna upa yajñam ehi pañcayāmaṁ trivṛtaṁ saptatantum | aso havyavāḻ uta naḥ purogā jyog eva dīrghaṁ tama āśayiṣṭhāḥ ||

पद पाठ

इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् । असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥ १०.१२४.१

ऋग्वेद » मण्डल:10» सूक्त:124» मन्त्र:1 | अष्टक:8» अध्याय:7» वर्ग:9» मन्त्र:1 | मण्डल:10» अनुवाक:10» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में शरीररूप अन्धकार में बहुकाल से वसता हुआ आत्मा मुक्ति की आकाङ्क्षा करता है, जहाँ स्वराज्य स्वतन्त्रता है, जहाँ इन्द्रियगण साङ्कल्पिक और शरीर साङ्कल्पिक हैं।

पदार्थान्वयभाषाः - (अग्ने) हे शरीर के अग्रणायक आत्मा ! (नः) हम जाठराग्नि प्राण इन्द्रियों को (पञ्चयामम्) पाँच पृथिवी जल अग्नि वायु आकाश भूतों से नियन्त्रित सङ्गृहीत हुए (त्रिवृत्) तीन-वात पित्त कफों में वर्तनेवाले (सप्ततन्तुम्) सात-रस रक्त मांस मेद अस्थि मज्जा वीर्य तन्तु ताननेवाले विस्तारक जिसके, ऐसे (यज्ञम्) शरीरयज्ञ को (उप आ इहि) उपागत हो-समीपरूप से प्रवेश कर (हव्यवाहः) तू उपयोज्य वस्तुवाहक (उत) तथा (पुरोगाः) पुरोगन्ता (असः) हो-है (ज्योक्-एव) चिरकाल तक (दीर्घं तमः) घने अन्धकार में (आ अशयिष्ठाः) भलीभाँति शयन कर-सुरक्षित रहे, कोई तुझे पीड़क देख न सके ॥१॥
भावार्थभाषाः - जाठर अग्नि प्राण इन्द्रियों में आधार पृथिवी आदि भूत से सङ्गृहीत तीन वात पित्त कफ में वर्तमान सात रस रक्त मांसादि धातुओं के घर-शरीर में आत्मा चालक स्वामी है, पर वह घने अन्धकार में है, उसे बाहिरी दृष्टि से कोई देख नहीं सकता है ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते शरीररूपेऽन्धकारे बहुकालाद् वसन्नात्मा मुक्तिं काङ्क्षति तत्र सत्यकामाः प्रेरयन्ति यदितोऽन्यत्र गन्तव्यं यत्र स्वराज्यं स्वातन्त्र्यं भवेत् साङ्कल्पिकेन्द्रियवृन्दं शरीरमपि साङ्कल्पिकमिति मोक्षे प्रार्थ्यते।

पदार्थान्वयभाषाः - (अग्ने) हे शरीरस्याग्रणायक ! आत्मन् (नः) जाठराग्निप्राणेन्द्रिया-णामस्माकं (पञ्चयामम्) पञ्च यमयितारो नियमयितारो सङ्ग्रहीतारः पृथिव्यादयः पदार्था यस्य तथाभूतं (त्रिवृतम्) त्रिषु वातपित्तश्लेष्मसु दोषेषु वर्तते यस्तं (सप्त तन्तुम्) सप्त रसरक्तमांसमेदोऽस्थिमज्ज-शुक्राणि तन्तवो विस्तारका यस्य तं (यज्ञम्) देहयज्ञम् “पुरुषो वाव यज्ञस्तस्य चतुर्विंशतिवर्षाणि प्रातःसवनम्” [छान्दो० प्र० ३ खं० १६ मं० १] (उप आ इहि) उपागच्छ-उपेत्य प्रविश (हव्यवाहः-उत पुरोगः-असः) त्वमस्माकं हव्यवाहनः उपयोज्यवस्तुवाहकः पुरोगन्ता च भव-भवति (ज्योक्-एव दीर्घं तमः) चिरं हि दीर्घे तमसि (आ अशयिष्ठाः) समन्ताच्छेस्व-सुरक्षितो भव न त्वां कश्चित् पश्येद् दृष्ट्वा पीडयेत् ॥१॥