वांछित मन्त्र चुनें

मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

अंग्रेज़ी लिप्यंतरण

mā no hiṁsīj janitā yaḥ pṛthivyā yo vā divaṁ satyadharmā jajāna | yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema ||

पद पाठ

मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ । यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ १०.१२१.९

ऋग्वेद » मण्डल:10» सूक्त:121» मन्त्र:9 | अष्टक:8» अध्याय:7» वर्ग:4» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो (पृथिव्याः) पृथिवी का (जनिता) उत्पादक (वा) और (यः) जो हि (सत्यधर्मा) सत्यनियमवाला परमात्मा (दिवम्) द्युलोक को (जजान) उत्पन्न करता है (च) और (यः) जो (बृहती) विस्तृत (चन्द्राः) आह्लाद करने-मन को भानेवाली (आपः) अन्तरिक्ष विभक्तियों को (जजान) उत्पन्न करता है (कस्मै...) पूर्ववत् ॥९॥
भावार्थभाषाः - जिस परमात्मा ने पृथिवीलोक, द्युलोक, चन्द्रताराओं से भरा मन भानेवाला अन्तरिक्ष उत्पन्न किया है, उस सुखस्वरूप प्रजापति के लिये उपहाररूप में अपने आत्मा का समर्पण करना चाहिये ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) यः खलु (पृथिव्याः-जनिता) भूमेरुत्पादयिता (वा) अथ च “वा समुच्चयार्थे” [निरु० १।५] (यः) यो हि (सत्यधर्मा) सत्यनियमवान् (दिवं जजान) द्युलोकमुत्पादयति (च) अपि च (यः) यः खलु (बृहतीः-चन्द्राः-आपः-जजान) महतीराह्लादकारिणीरन्तरिक्षविभक्तिर्नक्षत्रयुताः ‘आपोऽन्तरिक्षनाम” [निघ० १।३] उत्पादयति (कस्मै....) पूर्ववत् ॥९॥