प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva | yatkāmās te juhumas tan no astu vayaṁ syāma patayo rayīṇām ||
प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ । यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥ १०.१२१.१०