वांछित मन्त्र चुनें

इन्द्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण॑म् । म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी॑यान् ॥

अंग्रेज़ी लिप्यंतरण

indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam | mahīṁ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān ||

पद पाठ

इन्द्रः॑ । दि॒वः । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । विश्वा॑ । वे॒द॒ । सव॑ना । हन्ति॑ । शुष्ण॑म् । म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये॑ण । चा॒स्कम्भ॑ । चि॒त् । कम्भ॑नेन । स्कभी॑यान् ॥ १०.१११.५

ऋग्वेद » मण्डल:10» सूक्त:111» मन्त्र:5 | अष्टक:8» अध्याय:6» वर्ग:10» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् परमात्मा (दिवः) द्युलोक का (पृथिव्याः) पृथिवी का (प्रतिमानम्) प्रतिष्ठित करने का अधिष्ठान है (विश्वा) सारे (सवना) उत्पन्न आकाशीय पिण्डों नक्षत्रों को (वेद) जानता है स्वाश्रय में लेता है (शुष्णं हन्ति) शोषणकर्ता आवरणता को जलवर्षा कर नष्ट करता है (महीम्) महती (चित्) भी (द्याम्) द्योतनरूप गगनस्थिति को (आतनोत्) सूर्य द्वारा भलीभाँति प्रकाशित करता है (स्कम्भीयान्) अत्यन्त स्कम्भित करनेवाला थामनेवाला परमात्मा (सूर्येण) सूर्य द्वारा (स्कम्भनेन) स्कम्भनबल से (चास्कम्भ) स्कम्भित करता है ॥५॥
भावार्थभाषाः - परमात्मा महान् नक्षत्र तारायुक्त गगनमण्डल को सूर्य द्वारा थामता है, चमकाता है, द्युलोक पृथिवीलोक का अधिष्ठान है, सब लोकों को जानता है, शोषकता को जलवर्षा कर नष्ट करता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् परमात्मा (दिवः पृथिव्याः प्रतिमानम्) द्युलोकस्य पृथिवीलोकस्य प्रतिष्ठितकरणाधिष्ठानमस्ति (विश्वा सवना वेद) सर्वाण्युत्पन्नानि खल्वाकाशपिण्डानि नक्षत्राणि “सवनानि वै रोचनानि” [मै० ३।२।८] “नक्षत्राणि वै रोचनानि दिवि” [तै० ३।९।४।२] जानाति-विन्दते स्वाश्रये नयति (शुष्णं हन्ति) शोषकतामावरणं वा नाशयति जलं वर्षित्वा (महीं चित् द्यां सूर्येण आ अतनोत्) महतीमपि द्योतनात्मिकां गगनस्थितिं सूर्येणातानयति समन्तात् प्रकाशयति (स्कभीयान् स्कम्भनेन चास्कम्भ चित्) अतिशयेन स्कम्भिता स्कम्भनसामर्थ्येन स्कम्भयति हि सः ॥५॥