वांछित मन्त्र चुनें

इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः । पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥

अंग्रेज़ी लिप्यंतरण

indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ | purūṇi cin ni tatānā rajāṁsi dādhāra yo dharuṇaṁ satyatātā ||

पद पाठ

इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । पु॒रूणि॑ । चि॒त् । नि । त॒ता॒न॒ । रजां॑सि । दा॒धार॑ । यः । ध॒रुण॑म् । स॒त्यऽता॑ता ॥ १०.१११.४

ऋग्वेद » मण्डल:10» सूक्त:111» मन्त्र:4 | अष्टक:8» अध्याय:6» वर्ग:10» मन्त्र:4 | मण्डल:10» अनुवाक:9» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् परमात्मा (मह्ना) महत्त्व से (महतः) महान् (अर्णवस्य) परमाणुसमुद्र के (व्रता) कर्मों-चञ्चलरूपों को (अमिनात्) नष्ट करता है (अङ्गिरोभिः) अग्निकणों को (गृणानः) विज्ञान से संयुक्त करता हुआ (पुरूणि चित्) बहुत-असंख्य ही (रजांसि) लोक-लोकान्तरों को (निततान) नियत फैलाता है (यः) जो (सत्यताता) सत्यस्वरूप अविनाशी (धरुणम्) धारक आकाशमण्डल को (दाधार) धारण करता है ॥४॥
भावार्थभाषाः - परमात्मा अपने महत्त्व से परमाणुसमुद्र के चञ्चल कर्मों को नष्ट करता है, अग्निकणों को संयुक्त करता है, आकाशमण्डल को धारण करता है, लोक-लोकान्तरों को नियतरूप से फैलाता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) ऐश्वर्यवान् परमात्मा (मह्ना) महत्त्वेन (महतः-अर्णवस्य) बृहतः परमाणुसमुद्रस्य (व्रता-अमिनात्) कर्माणि चाञ्चल्यानि हिनस्ति (अङ्गिरोभिः-गृणानः) अग्निकणान् द्वितीयार्थे तृतीया व्यत्ययेन, विज्ञानेन संयोजयन् “गृ विज्ञाने” [चुरादि०] ‘विकरणव्यत्ययेन श्ना’ (पुरूणि-चित्-रजांसि नि ततान) बहूनि लोकलोकान्तराणि नियत्या तनोति (यः-सत्यताता धरुणं दाधार) यः सत्यस्वरूपोऽविनाशी धारकमाकाशमण्डलं धारयति ॥४॥