वांछित मन्त्र चुनें

वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् । अरु॑तहनु॒रद्भु॑तं॒ न रज॑: ॥

अंग्रेज़ी लिप्यंतरण

vajraṁ yaś cakre suhanāya dasyave hirīmaśo hirīmān | arutahanur adbhutaṁ na rajaḥ ||

पद पाठ

वज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हरी॑मान् । अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥ १०.१०५.७

ऋग्वेद » मण्डल:10» सूक्त:105» मन्त्र:7 | अष्टक:8» अध्याय:5» वर्ग:27» मन्त्र:2 | मण्डल:10» अनुवाक:9» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो (हिरीमशः) दुःख हरणशील गुणवाला (हिरीमान्) तेजस्वी परमात्मा (सुहनाय) सुगमता से सहन करने योग्य (दस्यवे) नाशकारी दुष्ट जन के लिये (वज्रं चक्रे) शस्त्र फेंकता है (अरुत हनुः) अरुग्ण अबाध्य हनन साधनवाला (अद्भुतं न रजः) अद्भुत आकाश के समान व्यापक शक्तिमान् अबाध्य है ॥७॥
भावार्थभाषाः - परमात्मा दुःख हरण गुणवाला तेजस्वी अनन्त आकाश जैसा व्यापक शक्तिवाला अबाध्य शस्त्रवाला दुष्टजन को सुगमता से नष्ट करनेवाला  है, उसका भय कर पाप न करना चाहिये ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः हिरीमशः-हिरीमान्) यः खलु दुःखहरणशीलगुणवान् हिरण्यवान् तेजस्वी “हिरिश्मश्रुः-हिरण्यमिव…” [ऋ० ५।७।७ दयानन्दः] “हृधातोः-ईमन्-प्रत्ययः, ऋकारस्य इकारो रपर-आदेशः पुनर्मत्वर्थीयः शः प्रत्ययो मतुप् च” (सुहनाय दस्यवे) सुगमतया हन्तुं योग्याय नाशकारिणे दुष्टाय (वज्रं चक्रे) शस्त्रं क्षिपति (अरुत हनुः) अरुजत हननसाधनः-अबाध्यहनन-साधनमस्य तथाभूतः “रुतस्य रुग्णस्य पृषोदरादित्वाज्जकारलोपः” [यजु० १६।४९ दयानन्दः] “हन्तुर्हन्तेः” [निरु० ६।१७] (अद्भुतं न रजः) अद्भुतमन्तरिक्ष-आकाश इवाबाध्यः स परमात्मा ॥७॥