वांछित मन्त्र चुनें

अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा॑गरा॒स्वधि॑ दे॒व एक॑: । इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥

अंग्रेज़ी लिप्यंतरण

apo mahīr abhiśaster amuñco jāgar āsv adhi deva ekaḥ | indra yās tvaṁ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ ||

पद पाठ

अ॒पः । म॒हीः । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । अजा॑गः । आ॒सु॒ । अधि॑ । दे॒वः । एकः॑ । इन्द्र॑ । याः । त्वम् । वृ॒त्र॒ऽतूर्ये॑ । च॒कर्थ॑ । ताभिः॑ । वि॒श्वऽआ॑युः । त॒न्व॑म् । पु॒पु॒ष्याः॒ ॥ १०.१०४.९

ऋग्वेद » मण्डल:10» सूक्त:104» मन्त्र:9 | अष्टक:8» अध्याय:5» वर्ग:25» मन्त्र:4 | मण्डल:10» अनुवाक:9» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (महीः-अपः) महागुणवाली आप्त प्रजाओं-अर्थात् जीवन्मुक्त आप्त जनों को (अभिशस्तेः) हिंसित करनेवाली मृत्यु से (अमुञ्चः) चुराता है (आसु-अधि) इन आप्त प्रजाओं में-आप्त जनों में अधिष्ठित रक्षक (एकः-देवः) तू एक देव (अजागः) जगाता है (याः) जिन आप्त प्रजाओं-आप्त जनों को (त्वम्) तू (वृत्रतूर्ये) अज्ञाननाशार्थ (चकर्थ) समर्थ बनाता है (ताभिः) उनके लिए (विश्वम्-आयुः) सब जीवनपर्यन्त (तन्वं पुपुष्याः) शरीर को पुष्ट करता है, समृद्ध बनाता है ॥९॥
भावार्थभाषाः - परमात्मा आप्त जनों-जीवन्मुक्त उपासक जनों को मृत्यु से बचाता है और उन्हें अज्ञान नष्ट करने को समर्थ करता है, उन्हें पदे पदे सावधान करता है-जगाता है, आयुपर्यन्त शरीर को समृद्ध करता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (महीः-अपः-अभिशस्तेः अमुञ्चः) महागुणवतीराप्ताः प्रजाः-जीवन्मुक्तान्-आप्तजनान्-अभिशासति-आभिमुख्येन हिनस्ति यः स मृत्युः “शंसु हिंसायाम्” [भ्वादि०] तस्मात् खलु मुञ्चसि (आसु-अधि-एकः-देवः-अजागः) आसु ह्याप्तप्रजासु ह्यधिष्ठितो-रक्षकस्त्वमेवैको जागरयसि (याः-त्वं वृत्रतूर्ये चकर्थ) याः-आप्तप्रजास्त्वमावरकाज्ञाननाशाय समर्थाः करोषि ( ताभिः) ताभ्यः “व्यत्ययेन चतुर्थीस्थाने तृतीया” (विश्वम्-आयुः-तन्वं पुष्याः) सर्वजीवनपर्यन्तं शरीरं पोषयसि, व्यत्ययेन श्लुः ॥९॥