वांछित मन्त्र चुनें

वी॒रेण्य॒: क्रतु॒रिन्द्र॑: सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे । आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥

अंग्रेज़ी लिप्यंतरण

vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe | ārdayad vṛtram akṛṇod u lokaṁ sasāhe śakraḥ pṛtanā abhiṣṭiḥ ||

पद पाठ

वी॒रेण्यः॑ । क्रतुः॑ । इन्द्रः॑ । सु॒ऽश॒स्तिः । उ॒त । अपि॑ । धेना॑ । पु॒रु॒ऽहू॒तम् । ई॒ट्टे॒ । आर्द॑यत् । वृ॒त्रम् । अकृ॑णोत् । ऊँ॒ इति॑ । लोक॑म् । स॒स॒हे । श॒क्रः । पृत॑नाः । अ॒भि॒ष्टिः ॥ १०.१०४.१०

ऋग्वेद » मण्डल:10» सूक्त:104» मन्त्र:10 | अष्टक:8» अध्याय:5» वर्ग:25» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवान् परमात्मा (वीरेण्यः) प्राणों के लिये हितकर-प्राणपोषक (क्रतुः) कर्मवान् (सुशस्तिः) शोभन प्रशंसावाला-सुप्रशंसनीय (उत-अपि) और (पुरुहूतम्) इस बहुत प्रकार से बुलाने योग्य परमात्मा को (धेना) वेदवाणी (ईट्टे) स्तुति करती है-वर्णन करती है (वृत्रम्-आर्दयत्) आवरणकारक अज्ञान को वेदवाणी से भलीभाँति नष्ट करता है (लोकम्-अकृणोत्) ज्ञान का प्रकाश करता है (शक्रः) समर्थ परमात्मा (अभिष्टिः) अभिव्याप्त होता हुआ (पृतनाः) संग्रामप्रवृत्तियों को (ससहे) स्वाधीन करता है ॥१०॥
भावार्थभाषाः - परमात्मा प्राणपोषक सर्वकर्मसमर्थ है, उसके स्वरूप को वेदवाणी वर्णन करती है, वह अज्ञाननाशक और ज्ञानप्रकाशक और विरोधी प्रवृत्तियों पर अधिकार करनेवाला है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) ऐश्वर्यवन् परमात्मा (वीरेण्यः) प्राणेभ्यो हितः “प्राणा वै दशवीराः” [श० १३।८।१।२२] “तस्मै हिताय हितार्थे छान्दस एन्यः प्रत्ययः” (क्रतुः) कर्मवान् “मतुब्लोपश्छान्दसः” (सुशस्तिः) शोभनप्रशंसा यस्य तथाभूतः (उत-अपि) अपि च (पुरुहूतम्) एतं बहु ह्वातव्यं परमात्मानं (धेना-ईट्टे) वेदवाक् “धेना वाङ्नाम” [निघ० १।११] स्तौति वर्णयति (वृत्रम्-आर्दयत्) आवरकमज्ञानं-वेदवाचा समन्तान्नाशयति “अर्दति वधकर्मा” [निघ० २।१९] “अर्द हिंसायाम्” [चुरादि०] (लोकम्-अकृणोत्) ज्ञानप्रकाशं करोति ‘लोकृ दर्शने’ [भ्वादि०] अत्र प्रकाशनार्थे (शक्रः-अभिष्टिः) शक्र-इन्द्रः परमात्माऽभिगन्ता व्याप्तः सन् (पृतनाः ससहे) सर्वाः सङ्ग्रामप्रवृत्तिरभिषहतेऽभिभवति ॥१०॥