वांछित मन्त्र चुनें

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑: । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥

अंग्रेज़ी लिप्यंतरण

indra āsāṁ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ | devasenānām abhibhañjatīnāṁ jayantīnām maruto yantv agram ||

पद पाठ

इन्द्रः॑ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः॑ । दक्षि॑णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः॑ । दे॒व॒ऽसे॒नाना॑म् । अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम् । जय॑न्तीनाम् । म॒रुतः॑ । य॒न्तु॒ । अग्र॑म् ॥ १०.१०३.८

ऋग्वेद » मण्डल:10» सूक्त:103» मन्त्र:8 | अष्टक:8» अध्याय:5» वर्ग:23» मन्त्र:2 | मण्डल:10» अनुवाक:9» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (आसाम्) इन (देवसेनानाम्) विजय चाहनेवाली सेनाओं (अभिभञ्जतीनाम्) शत्रुओं का भञ्जन करती हुई (जयन्तीनाम्) जय प्राप्त करती हुई का (नेता) नायक, विद्युत्शक्तिसम्पन्न वीर राजा (बृहस्पतिः) विद्वान् सेनापति (दक्षिणा यज्ञः) दक्षिण भाग में यज्ञ-जिसके है, ऐसा यज्ञपरायण परोपकारी (सोमः) शान्तस्वभाव सेनाप्रेरक के अधीन (मरुतः) सैनिक जन (अग्रम्) आगे (यन्तु) जाते हैं, बढ़ते हैं ॥८॥
भावार्थभाषाः - जिस राष्ट्र में विजय चाहनेवाली, शत्रु का विभञ्जन करनेवाली, जय प्राप्त करने की शक्तिवाली सेनाएँ हों और उसका नेता शासक या सेनापति विद्युत्शक्ति जैसा वीर विद्वान् परोपकारी शान्तस्वभाव हो, तो सैनिक जन युद्ध में आगे बढ़ते चले जाते हैं और अन्त में युद्ध में विजय पाते हैं ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (आसां देवसेनानाम्) एतासां विजिगीषुसेनानां (अभिभञ्जतीनां जयन्तीनाम्) शत्रुदलं भग्नं कुर्वन्तीनाम्-जयं प्राप्नुवन्तीनाम् (नेता) इन्द्रः-विद्युत्तुल्यो वीरो राजा (बृहस्पतिः) सर्वशास्त्रनिष्णातः सेनापतिः (दक्षिणा यज्ञः) दक्षिणभागे यज्ञो यस्य तथाभूतः परोपकारी (सोमः) शान्तस्वभावः सेनाप्रेरकश्च “सोमः सेनाप्रेरकः” [यजु० १७।४० दयानन्दः] तदधीनानाम्-सेनायां (मरुतः-अग्रं यन्तु) सैनिका अग्रं गच्छन्ति “लडर्थे लोट्” ॥८॥