वांछित मन्त्र चुनें

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑र॒: प्रवी॑र॒: सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥

अंग्रेज़ी लिप्यंतरण

balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ | abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit ||

पद पाठ

ब॒ल॒ऽवि॒ज्ञा॒यः । स्थवि॑रः । प्रऽवी॑रः । सह॑स्वान् । वा॒जी । सह॑मानः । उ॒ग्रः । अ॒भिऽवी॑रः । अ॒भिऽस॑त्वा । स॒हः॒ऽजाः । जैत्र॑म् । इ॒न्द्र॒ । रथ॑म् । आ । ति॒ष्ठ॒ । गो॒ऽवित् ॥ १०.१०३.५

ऋग्वेद » मण्डल:10» सूक्त:103» मन्त्र:5 | अष्टक:8» अध्याय:5» वर्ग:22» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बलविज्ञायः) सैन्यबल सम्पन्न करना जाननेवाला (स्थविरः) राजधर्म में प्रवृद्ध ज्येष्ठ श्रेष्ठ (सहस्वान्) साहसवान् (वाजी) बलवान् (उग्रः सहमानः) प्रतापी शत्रुओं पर अभिभूत होनेवाला-प्रभावक (प्रवीरः) प्रकृष्ट वीर (अभिवीरः) इधर-उधर वीरोंवाला-वीरवान् (अभिसत्वा) इधर-उधर युद्ध कुशलवाला (सहोजाः) बल में प्रख्यात (गोवित्) राष्ट्रभूमि को प्राप्त हुआ (इन्द्र) राजन् ! तू (जैत्रं रथम्-आ तिष्ठ) जयसाधन रथ पर विराज ॥५॥
भावार्थभाषाः - राजा या शासक राष्ट्रभूमि को प्राप्त करके विमान आदि यान पर यात्रा कर, सेन्यबलों को सम्पन्न करे, राजधर्म में कुशल हो, प्रतापी साहसवान् युद्धकुशल सैनिक से समृद्ध होवे ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बलविज्ञायः) सैन्यबलं कर्त्तुं जानाति सः “बलविज्ञायः-यो बलं बलयुक्तं सैन्यं कर्त्तुं जानाति सः” [यजु० १७।३७ दयानन्दः] (स्थविरः) राजधर्मे प्रवृद्धः “स्थविरः-वृद्धो विज्ञानराजधर्म-व्यवहारः” [यजु० १७।३७ दयानन्दः] (सहस्वान्) साहसवान् (वाजी) बलवान् (उग्रः सहमानः) प्रतापी शत्रून्-अभिभवन् सन् (प्रवीरः) प्रकृष्टवीरः (अभिवीरः) अभिगतो वीरैः स वीरवान् (अभिसत्वा) अभितः सत्वानो युद्धकुशलाः यस्य सः “अभिसत्त्वाः-अभितः सत्त्वानो युद्धविद्वांसः…यस्य सः” [यजु० १७।३७ दयानन्दः] (सहोजाः) बलेन प्रख्याताः (गोवित्) राष्ट्रभूमेर्लब्धा सन् (इन्द्र) राजन् ! (जैत्रं रथम्-आ तिष्ठ) जयसाधनं रथमाविराजस्व ॥५॥