शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः । नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥
śunam aṣṭrāvy acarat kapardī varatrāyāṁ dārv ānahyamānaḥ | nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta ||
शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्रायाम् । दारु॑ । आ॒ऽनह्य॑मानः । नृ॒म्नानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥ १०.१०२.८