वांछित मन्त्र चुनें

उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् । इन्द्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥

अंग्रेज़ी लिप्यंतरण

uta pradhim ud ahann asya vidvān upāyunag vaṁsagam atra śikṣan | indra ud āvat patim aghnyānām araṁhata padyābhiḥ kakudmān ||

पद पाठ

उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् । इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥ १०.१०२.७

ऋग्वेद » मण्डल:10» सूक्त:102» मन्त्र:7 | अष्टक:8» अध्याय:5» वर्ग:21» मन्त्र:1 | मण्डल:10» अनुवाक:9» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विद्वान्) विद्वान् चालक (वंसगम्) वृषभयान के सम्भजनीय अङ्ग-मुख्य अङ्ग को (शिक्षन्) प्रेरित करता है (इन्द्रः) विद्युत् अग्नि (अघ्न्यानाम्) अहन्तव्य तरङ्गमालाओं के (पतिम्) रक्षक मूलयन्त्र को (उत् आवत्) उत्तेजित करता है, पुनः (ककुद्मान्) गति तरङ्गवाला कृत्रिम वृषभ-वृषभरथ (पद्याभिः) पादस्थानीय चक्रकलाओं के द्वारा (अरंहत) गति करता है ॥७॥
भावार्थभाषाः - वृषभ आकृतिवाले यान के मुख्य अङ्ग को चालक प्रेरणा करता है, तो विद्युत् अग्नि अपने तरङ्गों के रक्षक पात्र को उत्तेजित करता है, तो वह गतिमान् वृषभयान चलनेवाले गतिचक्रों से चला करता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विद्वान् वंसगं शिक्षन्) विद्वान् यन्ता-चालकः सम्भजनीयमङ्गं शास्ति प्रेरयति (इन्द्रः-अघ्न्यानां-पतिम्-उत्-आवत्) विद्युदग्निः स्वकीयानामहन्तव्यतरङ्गमालानां रक्षकं मूलयन्त्रमुत्तेजयति पुनः (ककुद्मान्-पद्याभिः-अरंहत) गतितरङ्गवान् कृत्रिमवृषभः “ककि गत्यर्थः” [भ्वादि०] उतिप्रत्ययः-औणादिकः पादस्थानीयचक्र-कलाभिर्गच्छति ॥७॥