वांछित मन्त्र चुनें

अ॒न्तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिन्द्राभि॒दास॑तः । दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ॥

अंग्रेज़ी लिप्यंतरण

antar yaccha jighāṁsato vajram indrābhidāsataḥ | dāsasya vā maghavann āryasya vā sanutar yavayā vadham ||

पद पाठ

अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः । दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥ १०.१०२.३

ऋग्वेद » मण्डल:10» सूक्त:102» मन्त्र:3 | अष्टक:8» अध्याय:5» वर्ग:20» मन्त्र:3 | मण्डल:10» अनुवाक:9» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मघवन्-इन्द्र) विजय करानेवाले विद्युद्रूप अग्नि ! (जिघांसतः) हनन करने की इच्छा रखनेवाले के (अभिदासतः) सामने आकर क्षीण करनेवाले के (वज्रम्) शस्त्रास्त्र (अन्तः-यच्छ) अपने अधीन कर (दासस्य वा) स्वराष्ट्र में आश्रय पाते हुए के या (आर्यस्य वा) बाहर देश से आये हुए के (वधम्) हिंसासाधन को (सनुतः-यवय) अन्तर्हित विलीन कर या पृथक्-पृथक् चूर-चूर कर ॥३॥
भावार्थभाषाः - मारने की इच्छा रखनेवाले सामने से आकर क्षीण करनेवाले के शस्त्रास्त्र को अपने अधीन कर तथा स्वदेश में बसनेवाले स्वाधीन के या स्वतन्त्र देश में बसनेवाले शत्रु के वधसाधन को विलीन करना-क्षीण करना चाहिये ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मघवन्-इन्द्र) हे विजयप्रद विद्युद्रूपाग्ने ! (जिघांसतः-अभिदासतः) हन्तुमिच्छतः-अभिक्षयं कुर्वतः (वज्रम्-अन्तः-यच्छ) शस्त्रास्त्रं स्वाधीने वशे नय (दासस्य वा-आर्यस्य वा वधम्) स्वराष्ट्रे खल्वाश्रयो दीयते यस्मै तस्य बहिर्देशतः प्राप्तस्य च शत्रुभूतस्य वधसाधनं शस्त्रम् (सनुतः-यवय) अन्तर्हितं विलीनं पृथक् पृथक् कणशश्चूर्णय “सनुतर्निर्णीतान्तर्हितनाम” [निघ० ३।२५] ॥३॥