वांछित मन्त्र चुनें

कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये । नि॒ष्टि॒ग्र्य॑: पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥

अंग्रेज़ी लिप्यंतरण

kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye | niṣṭigryaḥ putram ā cyāvayotaya indraṁ sabādha iha somapītaye ||

पद पाठ

कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये । नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्या॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥ १०.१०१.१२

ऋग्वेद » मण्डल:10» सूक्त:101» मन्त्र:12 | अष्टक:8» अध्याय:5» वर्ग:19» मन्त्र:6 | मण्डल:10» अनुवाक:9» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कपृत्) सुख से पूरित किये जाते हैं, तृप्त किये जाते हैं, ऐसे वे (नरः) मनुष्य (कपृथम्) सुखपूरक परमात्मा को (उत्-दधातन) उत्कृष्टरूप से धारण करें (वाजसातये) अमृतान्नप्राप्ति के लिए (चोदयत खुदत) उसकी प्रार्थना करें-और उसमें खेलें-रमण करें (निष्टिग्र्यः) निष्पापजन के (पुत्रम्-इन्द्रम्) रक्षक परमात्मा को (सबाधः) बाधामुक्त हुआ (ऊतये) रक्षा के लिए (आच्यावय) प्राप्त करो (इह सोमपीतये) इस संसार में आनन्दरसपान करने के लिए ॥१२॥
भावार्थभाषाः - सुख चाहनेवाला मनुष्य सुखपूर्ण करनेवाले परमात्मा को उत्कृष्ट भावना से अपने अन्दर धारण करें, उसके अन्दर रमण करें, वह परमात्मा निष्पापजन का रक्षक, पीड़ा से बचानेवाला आनन्दरस का देनेवाला है ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कपृत्) सुखेन पूर्यन्ते तृप्यन्ते ये ते “जसो लुक्” कं सुखनाम [निघ० ३।६] पृ धातोः क्विप् कर्मणि (नरः) जनाः (कपृथम्) सुखपूरकं परमात्मानम् (उद्-दधातने) उत्कृष्टतया धारयत (वाजसातये) अमृतान्नप्राप्तये “अमृतोऽन्नं वाजः” [जैमि० २।१९३] (चोदयत-खुदत) प्रेरयत प्रार्थयध्वं-क्रीडयत “खुर्द क्रीडायाम्” [भ्वादि०] रेफलोपश्छान्दसः (निष्टिग्र्यः पुत्रम्-इन्द्रम्) “न इष्टिर्यस्मिन्-निष्टिः पापम्” “पृषोदरादिनेष्टसिद्धिः” पापं पापेनोपार्जितं गिरति खादति निष्टिग्रीः ”क्रीः प्रत्ययो बाहुलकादौणादिकः” तस्य पवित्रकारकं परमात्मानं “पुत्रः यः पुनाति सः” [ऋ० १।१८१।४६ दयानन्दः] “पुवो ह्रस्वश्च क्तः प्रत्ययः” [उणादि० ४।१६५] (सबाधः) बाधासहितः (ऊतये-आच्यावय) रक्षायै प्राप्नुहि (इह सोमपीतये) अत्रानन्दरसपानाय ॥१२॥