वांछित मन्त्र चुनें

न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् । माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

अंग्रेज़ी लिप्यंतरण

na vo guhā cakṛma bhūri duṣkṛtaṁ nāviṣṭyaṁ vasavo devaheḻanam | mākir no devā anṛtasya varpasa ā sarvatātim aditiṁ vṛṇīmahe ||

पद पाठ

न । वः॒ । गुहा॑ । च॒कृ॒म॒ । भूरि॑ । दुः॒ऽकृ॒तम् । न । आ॒विःऽत्य॑म् । व॒स॒वः॒ । दे॒व॒ऽहेळ॑नम् । माकिः॑ । नः॒ । दे॒वाः॒ । अनृ॑तस्य । वर्प॑सः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.७

ऋग्वेद » मण्डल:10» सूक्त:100» मन्त्र:7 | अष्टक:8» अध्याय:5» वर्ग:17» मन्त्र:1 | मण्डल:10» अनुवाक:9» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वसवः) हे बसानेवाले पूज्य महानुभावों ! (वः) तुम्हारे प्रति (भूरि दुष्कृतम्) बहुत पाप (गुहा-न चकृम) बुद्धि में-मन में जानकर न करें (न-आविष्ट्यम्) न बाहर-सक्षम करें (देवहेडनम्) विद्वानों का अनादर न करें (देवाः) हे विद्वानों ! (अनृतस्य वर्पसः) असत्य के स्वरूप के (माकिः) न कदापि अपराधी होवें (सर्वतातिम्०) पूर्ववत् ॥७॥
भावार्थभाषाः - विद्या आदि से बसानेवाले विद्वानों के प्रति दुर्व्यवहार या पाप बाहर या भीतर मन में पापचिन्तन तथा उसका अनादर नहीं करना चाहिए और न कभी असत्य के अपराधी बनें, किन्तु उस जगद्विस्तारक अविनाशी परमात्मा का स्मरण करें ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वसवः) वासयितारो देवाः-पूज्यमहानुभावाः ! (वः) युष्मान् प्रति (भूरि दुष्कृतम्) बहुपापं ज्ञात्वा यत् पापं तत् (गुहा न चकृम) गुहायां बुद्धौ “गुहा गुहायां बुद्धौ” [यजु० ३२।८ दयानन्दः] न कुर्मः (न-आविष्ट्यम्) न बाह्ये समक्षे कुर्म (देवहेडनम्) न विदुषामनादरं कुर्मः “हेडृ अनादरे” (देवाः) विद्वांसः (अनृतस्य वर्पसः) असत्यस्य रूपस्य-स्वरूपस्य (माकिः) न कदापि अपराधिनो भवेम (सर्वतातिम्०) पूर्ववत् ॥७॥