नकि॑ष्ट ए॒ता व्र॒ता मि॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ॥
nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṁ cakartha ||
नकिः॑। ते॒। ए॒ता। व्र॒ता। मि॒न॒न्ति॒। नृऽभ्यः॑। यत्। ए॒भ्यः। श्रु॒ष्टिम्। च॒कर्थ॑ ॥
स्वामी दयानन्द सरस्वती
फिर वह विद्वान् कैसा है, यह विषय अगले मन्त्र में कहा है ॥
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे विद्वन् ! यानि ते तवैतानि व्रतानि सन्ति तानि केऽपि न मिनन्ति। तानि कानीत्याह। यत्त्वमेभ्यो नृभ्यो यं श्रुष्टिं चकर्थ रपांसि विवेः। यत्ते तवेदं समानैर्नृभिः सह दंसोऽस्ति, तत्तु कश्चिदपि नकिरहन् हन्ति ॥ ४ ॥