वांछित मन्त्र चुनें

त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो। त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ॥

अंग्रेज़ी लिप्यंतरण

tvam āvitha naryaṁ turvaśaṁ yaduṁ tvaṁ turvītiṁ vayyaṁ śatakrato | tvaṁ ratham etaśaṁ kṛtvye dhane tvam puro navatiṁ dambhayo nava ||

मन्त्र उच्चारण
पद पाठ

त्वम्। आ॒वि॒थ॒। नर्य॑म्। तु॒र्वश॑म्। यदु॑म्। त्वम्। तु॒र्वीति॑म्। व॒य्य॑म्। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। त्वम्। रथ॑म्। एत॑शम्। कृत्व्ये॑। धने॑। त्वम्। पुरः॑। न॒व॒तिम्। द॒म्भ॒यः॒। नव॑ ॥

ऋग्वेद » मण्डल:1» सूक्त:54» मन्त्र:6 | अष्टक:1» अध्याय:4» वर्ग:18» मन्त्र:1 | मण्डल:1» अनुवाक:10» मन्त्र:6


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे (शतक्रतो) बहुत बुद्धियुक्त विद्वन् सभाध्यक्ष ! जिस कारण (त्वम्) आप (नर्य्यम्) मनुष्यों में कुशल (तुर्वशम्) उत्तम (यदुम्) यत्न करनेवाले मनुष्य की रक्षा (त्वम्) आप (तुर्वीतिम्) दोष वा दुष्ट प्राणियों को नष्ट करनेवाले (वय्यम्) ज्ञानवान् मनुष्य की रक्षा और (त्वम्) आप (कृत्व्ये) सिद्ध करने योग्य (धने) विद्या, चक्रवर्त्ति राज्य से सिद्ध हुए द्रव्य के विषय (एतशम्) वेगादि गुणवाले अश्वादि से युक्त (रथम्) सुन्दर रथ की (आविथ) रक्षा करते और (त्वम्) आप दुष्टों के (नव) नौ संख्या युक्त (नवतिम्) नव्वे अर्थात् निन्नाणवे (पुरः) नगरों को (दम्भयः) नष्ट करते हो, इस कारण इस राज्य में आप ही का आश्रय हम लोगों को करना चाहिये ॥ ६ ॥
भावार्थभाषाः - मनुष्यों को योग्य है कि जो राज्य की रक्षा करने में समर्थ न होवे, उस को राजा कभी न बनावें ॥ ६ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनः स कीदृश इत्युपदिश्यते ॥

अन्वय:

हे शतक्रतो विद्वन् ! यतस्त्वं नर्यं तुर्वशं यदुमाविथ त्वं तुर्वीतिं वय्यमाविथ त्वं कृत्व्ये धन एतशं रथं चाविथ त्वं नव नवतिं शत्रूणां पुरो दम्भयस्तस्माद् भवानेवास्माभिरत्र राज्यकार्य्ये समाश्रयितव्यः ॥ ६ ॥

पदार्थान्वयभाषाः - (त्वम्) सभाध्यक्षः (आविथ) रक्षणादिकं करोषि (नर्यम्) नृषु साधुम् (तुर्वशम्) उत्तमं मनुष्यम् (यदुम्) प्रयतमानम्। अत्र यती प्रयत्ने धातोः बाहुलकाद् औणादिक उः प्रत्ययो जश्त्वं च। (त्वम्) (तुर्वीतिम्) दुष्टान् प्राणिनो दोषांश्च हिंसन्तम्। अत्र संज्ञायां क्तिन्। बहुलं छन्दसि इतीडागमः। (वय्यम्) यो वयते जानाति तम्। अत्र वय धातोः बाहुलकाद् औणादिको यत्प्रत्ययः। (शतक्रतो) बहुप्रज्ञ (त्वम्) शिल्पविद्योत्पादकः (रथम्) रमणस्याधिकरणम् (एतशम्) वेगादिगुणयुक्ताश्ववन्तम् (कृत्व्ये) कर्त्तव्ये (धने) विद्याचक्रवर्त्तिराज्यसिद्धे द्रव्ये (त्वम्) दुष्टानां भेत्ता (पुरः) पुराणि (नवतिम्) एतत्संख्याकानि (दम्भयः) हिंधि (नव) नवसंख्यासहितानि ॥ ६ ॥
भावार्थभाषाः - मनुष्यैर्यो राज्यं रक्षितुं न क्षमः स राजा नैव कार्य्यः ॥ ६ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी राज्याचे रक्षण करण्यास समर्थ नसलेल्याला कधीही राजा बनवू नये. ॥ ६ ॥