उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
ud vayaṁ tamasas pari jyotiṣ paśyanta uttaram | devaṁ devatrā sūryam aganma jyotir uttamam ||
उत् । व॒यम् । तम॑सः । परि॑ । ज्योतिः॑ । पश्य॑न्तः । उत्त॑रम् । दे॒वम् । दे॒व॒त्रा । सूर्य॑म् । अग॑न्म । ज्योतिः॑ । उ॒त्त॒मम्॥
स्वामी दयानन्द सरस्वती
फिर उसको विद्वान्लोग किस प्रकार का जानें, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(उत्) ऊर्ध्वेर्थे (वयम्) विद्वांसः (तमसः) आवरकादज्ञानादन्धकारात् (परि) परितः (ज्योतिः) ईश्वररचितं प्रकाशस्वरूपं सूर्य्यलोकं (पश्यन्तः) प्रेक्षमाणाः (उत्तरम्) सर्वोत्कृष्टं प्रलयादूर्ध्वं वर्त्तमानं संप्लवकर्त्तारम् (देवम्) दातारम् (देवत्रा) देवेषु विद्वत्सु मनुष्येषु पृथिव्यादिषु वा वर्त्तमानम् (सूर्य्यम्) सर्वात्मानम् (अगन्म) प्राप्नुयाम (ज्योतिः) प्रकाशम् (उत्तमम्) उत्कृष्टगुणकर्मस्वभावम् ॥१०॥
पुनस्तं विद्वांसः कीदृशं जानीयुरित्युपदिश्यते।