नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् । श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥
ni tvā hotāram ṛtvijaṁ dadhire vasuvittamam | śrutkarṇaṁ saprathastamaṁ viprā agne diviṣṭiṣu ||
नि । त्वा॒ । होता॑रम् । ऋ॒त्विज॑म् । द॒धि॒रे । व॒सु॒वित्त॑मम् । श्रुत्क॑र्णम् । स॒प्रथः॑तमम् । विप्राः॑ । अ॒ग्ने॒ । दिवि॑ष्टिषु॥
स्वामी दयानन्द सरस्वती
फिर उस को किस प्रकार जानकर धारण करें, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(नि) निश्चयार्थे (त्वा) त्वाम् (होतारम्) ग्रहीतारम् (ऋत्विजम्) ऋतून् यजति संगच्छते यस्तम् (दधिरे) दधीरन्। अत्र लिङर्थे लिट्। (वसुवित्तमम्) यो वसूनि विदंति स वसुवित् सोऽतिशयितस्तम् (श्रुत्कर्णम्) यः सकलाविद्याः शृणोति तम् (सप्रथस्तमं) यः प्रथेन विद्याविस्तरेण सह वर्त्तते सोऽतिशयितस्तम् (विप्राः) मेधाविनः (अग्ने) बहुश्रुत सज्जन (दिविष्टिषु) दिवो दिव्या इष्टयो येषु पठनपाठनाख्येषु यज्ञेषु तेषु ॥७॥
पुनस्तं कथंभूतं विदित्वा धरेयुरित्युपदिश्यते।