त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त । यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥
tvam agne vasūm̐r iha rudrām̐ ādityām̐ uta | yajā svadhvaraṁ janam manujātaṁ ghṛtapruṣam ||
त्वम् । अ॒ग्ने॒ । वसू॑न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त । यज॑ । सु॒अ॒ध्व॒रम् । जन॑म् । मनु॑जातम् । घृ॒त॒प्रुष॑म्॥
स्वामी दयानन्द सरस्वती
अब पैंतालीसवें सूक्त का आरम्भ हैं। उसके पहिले मंत्र में बिजुली के दृष्टान्त से विद्वान् के गुणों का उपदेश किया है।
हरिशरण सिद्धान्तालंकार
किनका सङ्ग
स्वामी दयानन्द सरस्वती
(त्वम्) (अग्ने) विद्युद्वद्वर्त्तमान विद्वन् (वसून्) कृतचतुर्विंशतिवर्षब्रह्मचर्य्यान् पण्डितान् (इह) अत्र दीर्घादटिसमानपादे। अ० ८।३।९। अनेन रुः पूर्वस्थानुनासिकश्च। (रुद्रान्) आचरितचतुश्चत्वारिंशद्वर्षब्रह्मचर्य्यान् महाबलान् विदुषः (आदित्यान्) समाचरिताऽष्टचत्वारिंशत्संवत्सरब्रह्मचर्य्याऽखण्डितव्र- तान् महाविदुषः। अत्रापि पूर्वसूत्रेणैव रुत्वाऽनुनासिकत्वे। भोभगोअघो अपूर्वस्य योऽशि। अ० ८।३।१७। इति यत्वम्। लोपः शाकल्यस्य। अ० ८।३।१९। इति यकारलोपः (उत) अपि (यज) संगच्छस्व अत्र द्यचोऽतस्तिङ् इति दीर्घः। (स्वध्वरम्) शोभना पालनीया अध्वरा यस्य तम् (जनम्) पुरुषार्थिनम् (मनुजातम्) यो मनोर्मननशीलान्मनुष्या दुत्पन्नस्तम् (घृतप्रुषम्) यो यज्ञसिद्धेन घृतेन प्रष्णाति स्निह्यति तम् ॥१॥
तत्रादौ विद्युद्विद्वद्गुणा उपदिश्यन्ते।
डॉ. तुलसी राम
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात वसू, रुद्र व आदित्यांची गती व प्रमाण इत्यादींचे कथन केलेले आहे. यामुळे या सूक्तार्थाची पूर्वीच्या सूक्तार्थाबरोबर संगती जाणावी. ॥
