श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः । आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥
śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ | ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram ||
श्रु॒धि । श्रु॒त्क॒र्ण॒ । वह्नि॑भिः । दे॒वैः । अ॒ग्ने॒ । स॒याव॑भिः । आ । सी॒द॒न्तु॒ । ब॒र्हिषि॑ । मि॒त्रः । अ॒र्य॒मा । प्रा॒तः॒यावा॑नः । अ॒ध्व॒रम्॥
स्वामी दयानन्द सरस्वती
फिर वह विद्वान् कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(श्रुधि) शृणु (श्रुत्कर्ण) यः शृणोति कर्णाभ्यां तत्संबुद्धौ (वन्हिभिः) वहनसमर्थैः (देवैः) विद्वद्भिः (अग्ने) विद्याप्रकाशयुक्त (सयावभिः) ये समानं यान्ति ते सयावानस्तैः (आ) आभिमुख्ये (सीदन्तु) (बर्हिषि) उत्तमे व्यवहारे स्थाने वा (मित्रः) सर्वहितकारी न्ययाधीशः (प्रातर्यावाणः) ये प्रातः प्रतिदिनं पुरुषार्थं यान्ति ते (अध्वरम्) अहिंसनीयं पूर्वोक्तयज्ञम् ॥१३॥
पुनः स कीदृश इत्युपदिश्यते।