वांछित मन्त्र चुनें
देवता: रुद्रः ऋषि: कण्वो घौरः छन्द: गायत्री स्वर: षड्जः

यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ । यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥

अंग्रेज़ी लिप्यंतरण

yathā no aditiḥ karat paśve nṛbhyo yathā gave | yathā tokāya rudriyam ||

मन्त्र उच्चारण
पद पाठ

यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृभ्यः॑ । यथा॑ । गवे॑ । यथा॑ । तो॒काय॑ । रु॒द्रिय॑म्॥

ऋग्वेद » मण्डल:1» सूक्त:43» मन्त्र:2 | अष्टक:1» अध्याय:3» वर्ग:26» मन्त्र:2 | मण्डल:1» अनुवाक:8» मन्त्र:2


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह क्या करता है, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - (यथा) जैसे (तोकाय) उत्पन्न हुए बालक के लिये (अदितिः) माता (यथा) जैसे (पश्वे) पशु समूह के लिये पशुओं का पालक (यथा) जैसे (नृभ्यः) मनुष्यों के लिये राजा (यथा) जैसे (गवे) इन्द्रियों के लिये जीव वा पृथिवी के लिये खेती करनेवाला (करत्) सुखों को करता है वैसे (नः) हम लोगों के लिये (रुद्रियम्) परमेश्वर वा पवनों का कर्म प्राप्त हो ॥२॥
भावार्थभाषाः - इस मंत्र में उपमाऽलंकार है। जैसे माता-पिता पुत्र के लिये, गोपाल पशुओं के लिये और राजसभा प्रजा के लिये सुखकारी होते हैं वैसे ही सुखों के करने और कराने वाले परमेश्वर और पवन भी हैं ॥२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(यथा) येन प्रकारेण (नः) अस्मभ्यम् (अदितिः) माता। अत्रादितिर्द्यौः इत्यादिना माता गृह्यते। (करत्) कुर्य्यात्। अत्राऽयं# भ्यादिः*। (पश्वे) पशुसमूहाय पशुपालः। अत्र जसादिषु छन्दसि वा वचनम्। अ० ७।६।१०९। इति वार्त्तिकेनायं सिद्धः। (नृभ्यः) यथा मनुष्येभ्यो नृपतिः (यथा) (गवे) इन्द्रियाय जीवः पृथिव्यै कृषीवलः (यथा) (तोकाय) सद्योजातायापत्याय बालकाय (रुद्रियम्) रुद्रस्येदं कर्म। अत्र पृषोदराद्याकृतिगणान्तर्गतत्वात् इदमर्थे घः ॥२॥ #[टि० १ कृधातुः। सं०] *[महर्षियाऽत्र भ्यादि गणेऽपि कृधातुः स्वीकृतः, परं वर्त्तमान मुद्रितेषु धातुपाठेषु कृधातु र्भ्यादिगणे नोपलभ्यते, एवं ज्ञायते यत्पुरा काले भ्यादिगणेऽपि कृधातु रासीद् यस्य ‘करति, करतः, करन्ति,’ आदि रूपाण्यपि प्रचलितान्यासन् यथास्यैव सूक्त्तस्य षष्ठेमन्त्रे ‘करति’ इति प्रयोगो वर्तते। परमाधुनिकै वैयाकरणम्मन्यैस्तनादि गणे कृधातुं दृष्ट्वा भ्वादिपाठादसौ वहिष्कृतः। सं०।]

अन्वय:

पुनः स किं करोतीत्युपदिश्यते।

पदार्थान्वयभाषाः - यथा तोकायादितिर्माता यथा पश्वे पशुपालो यथा नृभ्यो नरेशो यथा गवे गोपालश्च सुखं करत् कुर्यात् तथा नोऽस्मभ्यं रुद्रियं कर्म स्यात् ॥२॥
भावार्थभाषाः - अत्रोपमालंकारः। यथा मातापितृभ्यां सन्तानाय पशुभ्यो गोपालेन राजसभया च विना प्रजाभ्यः सुखं न जायते तथैव विद्यापुरुषार्थाभ्यां विना सुखं न भवति ॥२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे माता-पिता पुत्रासाठी, गोपाल पशूंसाठी व राजसभा प्रजेसाठी सुखकारक असतात. तसेच परमेश्वर व वायूही सुखकारक असतात, हे जाणावे. ॥ २ ॥