हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते । अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥
hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate | apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti ||
हिर॑ण्यपाणिः । स॒वि॒ता । विच॑र्षणिः । उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तः । ई॒य॒ते॒ । अप॑ । अमी॑वाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् । ऋ॒णो॒ति॒॥
स्वामी दयानन्द सरस्वती
फिर वह क्या करता है, इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(हिरण्यपाणिः) हिरण्यानि ज्योतींषि पाणयो हस्तवद्ग्रहणसाधनानि यस्य सः (सविता) रसानां प्रसविता (विचर्षणिः) विलेखनस्वभावेन विच्छेदकः। कृषेरादेश्चचः उ० २।१००। इति कृषविलेखने धातोरनिः प्रत्ययः (उभे) द्वे (द्यावापृथिवी) प्रकाश पृथिव्यौ (अन्तः) अन्तरिक्षस्य मध्ये (ईयते) प्रापयति (अप) दूरीकरणे (अमीवाम्) रोगपीड़ाम् (बाधते) निवारयति (वेति) प्रजनयति। अत्रान्तर्गतो ण्यर्थः। (सूर्यम्) सरणशीलं स्वकीयरश्मिगणम् (अभि) सर्वतो भावे (कृष्णेन) पृथिव्यादिना (रजसा) लोकसमूहेन (द्याम्) प्रकाशम् (ऋणोति) प्रापयति। अत्रान्तर्गतो ण्यर्थः ॥९॥
पुनः स किं करोतीत्युपदिश्यते।