याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् । आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥
yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṁ yajato haribhyām | ā devo yāti savitā parāvato pa viśvā duritā bādhamānaḥ ||
याति॑ । दे॒वः । प्र॒वता॑ । याति॑ । उ॒त्वता॑ । याति॑ । शु॒भ्राभ्या॑म् । य॒ज॒तः । हरि॑भ्याम् । आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒वतः॑ । अप॑ । विश्वा॑ । दुःइ॒ता । बाध॑मानः॥
स्वामी दयानन्द सरस्वती
अब वायु और सूर्य्य के दृष्टान्त के साथ अगले मन्त्र में शूरवीर के गुणों का उपदेश किया है।
स्वामी दयानन्द सरस्वती
(याति) गच्छति (देवः) द्योतको वायुः (प्रवता) अधोमार्गेण। अत्र प्रपूर्वकात्संभजनार्थाद्वनधातोः क्विप् (याति) प्राप्नोति (उद्वता) ऊर्द्ध्वमार्गेण (याति) गच्छति (शुभ्राभ्याम्) शुद्धाभ्याम् (यजतः) संगंतुं योग्यः (हरिभ्याम्) कृष्णशुक्लपक्षाभ्याम् (आ) अभ्यर्थे (देवः) प्रकाशकः (याति) प्राप्नोति (सविता) सूर्यलोकः (परावतः) दूरमार्गान्। परावत इति दूरनामसु पठितम्। निघं० ३।२६। (अप) दूरार्थे (विश्वा) विश्वानि सर्वाणि (दुरिता) दुष्टानि दुःखानि। अत्रोभयत्र शेश्छंदसि इति लोपः। (बाधमानः) दुरीकुर्वन् ॥३॥
अथ वायुसूर्य्यदृष्टान्तेन शूरवीरगुणा उपदिश्यन्ते।