आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṁ ca | hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||
आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒वे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ । हि॒र॒ण्यये॑न । स॒वि॒ता रथे॒न॑ । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न्॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में सूर्यलोक के गुणों का उपदेश किया है।
स्वामी दयानन्द सरस्वती
(आ) समंतात् (कृष्णेन) कर्षति येन स कृष्णस्तेन। यद्वा कृष्णवर्णेन लोकेन। कृष्णं कृष्यतेर्निकृष्टो वर्णः। निरु० २।२०। यत्कृष्णं तदन्नस्य। छान्दो० ६।५। एताभ्यां प्रमाणाभ्यां पृथिवीलोका अत्र गृह्यन्ते कृषेर्वर्णे। उ० ३।४। इति नक् प्रत्ययः। अत्राङ् पूर्वकत्वादाकर्षणार्थो गृह्यते (रजसा) लोकसमूहेन सह। लोकारजांस्युच्यन्ते। निरु० ४।१९। (वर्त्तमानः) वर्त्ततेऽसौ वर्त्तमानः (निवेशयन्) नितरां स्वस्वसामर्थ्ये स्थापयन् (अमृतम्) अन्तर्यामितया वेदद्वारा च मोक्षसाधकं सत्यं ज्ञानं वृष्टिद्वाराऽमृतात्मकं रसं वा (मर्त्यम्) कर्मप्रलयप्राप्तिव्यवस्थया कालव्यवस्थया वा मरणधर्मयुक्तम् प्राणिनम् (च) समुच्चये (हिरण्ययेन) ज्योतिर्मयेनानन्तेन यशसा तेजोमयेन वा ऋत्व्यावस्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि। अ० ६।४।१७५। इत्ययं निपातितः ज्योतिर्हिहिरण्यम्। श० ४।३।१।२१। (सविता) सर्वेषां प्रसविता प्रकाशवृष्टिरसानां च प्रसविता (रथेन) रंहतिजानाति गच्छति गमयति वा येन तेन। रथो रंहतेर्गतिकर्मणः। निरु० ९।११। (आ) समंतात् (देवः) दीव्यति प्रकाशयतीति (याति) प्राप्नोति प्रापयति वा। अत्र पक्षेऽन्तर्गतो ण्यर्थः। (भुवनानि) भवन्ति भूतानि येषु तानि। भूम्० उ० २।७८#। इत्यधिकरणेक्युन् प्रत्ययः। (पश्यन्) प्रेक्षमाणो दर्शयन् वा। अत्रापि पक्षेऽन्तर्गतो ण्यर्थः ॥२॥वै० य० मुद्रित द्वितीयावृत्तौ ‘२।८०’ एषासुत्रसंवर्तते।सं०
अथ सूर्यलोकगुणा उपदिश्यन्ते।