ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभि॑स्सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥
ye te panthāḥ savitaḥ pūrvyāso reṇavaḥ sukṛtā antarikṣe | tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva ||
ये । ते॑ । पन्थाः॑ । स॒वि॒त॒रिति॑ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सुकृ॑ताः । अ॒न्तरि॑क्षे । तेभिः॑ । नः॒ । अ॒द्य । प॒थिभिः॑ । सु॒गेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में इन्द्र शब्द से ईश्वर का उपदेश किया है।
स्वामी दयानन्द सरस्वती
(ये) वक्ष्यमाणाः (ते) तव (पन्थाः) धर्ममार्गाः। अत्र सुपां सुलुग् इति जसः स्थाने सुः। (सवितः) सकलजगदुत्पादकेश्वर (पूर्व्यासः) पूर्वैः कृताः साधिताः सेविताश्च। अत्र पूर्वैः कृतमिनियौ च। अ० ४।४।१३३। इति पूर्वशब्दाद्यः प्रत्ययः। आज्जसेरसुग्# इत्यसुगागमश्च। (अरेणवः) अविद्यमाना रेणवो धूल्यंशा इव विघ्ना येषु ते। अत्रिवृरी०। उ० ३।३७। इति रीधातोर्णुः प्रत्ययः। (सुकृताः) सुष्ठु निर्मिताः (अन्तरिक्षे) स्वव्याप्तिरूपे ब्रह्माण्डे (तेभिः) तैः (नः) अस्मान् (अद्य) अस्मिन्नहनि (पथिभिः) उक्तमार्गैः (सुगेभिः) सुखेन गच्छन्ति येषु तैः। सुदुरोरधिकरणे०। अ० ३।२।४८। इति वार्त्तिकेन सूपपदाद्गमधातोर्डः प्रत्ययः (रक्ष) पालय। अत्र द्वचोतस्तिङ इतिदीर्घः। (च) समुच्चये (नः) अस्मभ्यम् (अधि) ईश्वरार्थ उपरिभावे (च) अपि (ब्रूहि) उपदिश (देव) सर्वसुखप्रदातरीश्वर ॥११॥ #[अ० ७।१।५०।]
अथेन्द्रशब्देनेश्वर उपदिश्यते।