त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते॒ जने॒ त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम् । त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥
trir vartir yātaṁ trir anuvrate jane triḥ suprāvye tredheva śikṣatam | trir nāndyaṁ vahatam aśvinā yuvaṁ triḥ pṛkṣo asme akṣareva pinvatam ||
त्रिः । व॒र्तिः । या॒त॒म् । त्रिः । अनु॑व्रते । जने॑ । त्रिः । सु॒प्र॒अ॒व्ये॑ । त्रे॒धाइ॑व । शि॒क्ष॒त॒म् । त्रिः । ना॒न्द्य॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । पृक्षः॑ । अ॒स्मे इति॑ । अ॒क्षरा॑इव । पि॒न्व॒त॒म्॥
स्वामी दयानन्द सरस्वती
फिर उनसे क्या कार्य करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(त्रिः) त्रिवारम् (वर्त्तिः) वर्त्तन्ते व्यवहरन्ति यस्मिन्मार्गे हृपिषिरुहिवृति। उ० ४।१२४#। इत्यधिकरण इप्रत्ययः। अत्र सुपां सुलुग् इति द्वितीयैकवचनस्य स्थाने सोरादेशः। (यातम्) प्रापयतम् (त्रिः) त्रिवारम् (अनुव्रते) अनुकूलं सत्याचरणं व्रतं यस्य तस्मिन् (जने) यो जनयति बुद्धिं तस्मिन्। अत्र पचाद्यच्। (त्रिः) त्रिवारम् (सुप्राव्ये) सुष्ठु प्रकृष्टमवितुं प्रवेशितुं योग्यस्तस्मिन् अत्र वाच्छन्दसि सर्वे० इति वृद्धिनिरोधः। (त्रेधेव) यथा त्रिभिः पाठनज्ञापनहस्तक्रियादिभिः प्रकारैस्तथा। इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च*। अ० २।१।४। अत्र सायणाचार्य्येण त्रेधैव त्रिभिरेवप्रकारैरित्येवशब्दोऽशुद्धो व्याख्यातः पदपाठ इव शब्दस्य प्रत्यक्षत्वात्। (शिक्षतम्) सुशिक्षया विद्यां ग्राहयतम् (त्रिः) त्रिवारम् (नान्द्यम्) नंदयितुं समर्धयितुं योग्यं शिल्पज्ञानम् (वहतम्) प्रापयतम् (अश्विना) विद्यादाताग्रहीतारावध्वर्यू (युवम्) युवाम् (त्रिः) त्रिवारम् (पृक्षः) पृंक्ते येन तत्। अत्र पृचीधातोः सर्वधातुभ्योऽसुन्। बाहुलकात्सुडागमश्च। (अस्मे) अस्मान् (अक्षरेव) यथाऽक्षराणि जलानि तथा। अत्र शेश्छन्दसि इति शेर्लोपः। अक्षरमित्युदकनामसु पठितम्। निघं० १।१२। (पिन्वतम्) प्रापयतम् ॥४॥ #[उ० ४।११९।] *[वार्तिकमिदम्। सं०]
पुनस्ताभ्यां किं कार्यं कर्त्तव्यमित्युपदिश्यते।