वांछित मन्त्र चुनें

तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म्। तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म्॥

अंग्रेज़ी लिप्यंतरण

takṣan nāsatyābhyām parijmānaṁ sukhaṁ ratham | takṣan dhenuṁ sabardughām ||

मन्त्र उच्चारण
पद पाठ

तक्ष॑न्। नास॑त्याभ्याम्। परि॑ऽज्मानम्। सु॒ऽखम्। रथ॑म्। तक्ष॑न्। धे॒नुम्। स॒बः॒ऽदुघा॑म्॥

ऋग्वेद » मण्डल:1» सूक्त:20» मन्त्र:3 | अष्टक:1» अध्याय:2» वर्ग:1» मन्त्र:3 | मण्डल:1» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

वे उक्त विद्वान् किससे क्या-क्या सिद्ध करें, इस विषय का उपदेश अगले मन्त्र में किया है-

पदार्थान्वयभाषाः - जो बुद्धिमान् विद्वान् लोग (नासत्याभ्याम्) अग्नि और जल से (परिज्मानम्) जिससे सब जगह में जाना-आना बने उस (सुखम्) सुशोभित विस्तारवाले (रथम्) विमान आदि रथ को (तक्षन्) क्रिया से बनाते हैं, वे (सबर्दुघाम्) सब ज्ञान को पूर्ण करनेवाली (धेनुम्) वाणी को (तक्षन्) सूक्ष्म करते हुए धीरज से प्रकाशित करते हैं॥३॥
भावार्थभाषाः - जो मनुष्य अङ्ग, उपाङ्ग और उपवेदों के साथ वेदों को पढ़कर उनसे प्राप्त हुए विज्ञान से अग्नि आदि पदार्थों के गुणों को जानकर कलायन्त्रों से सिद्ध होनेवाले विमान आदि रथों में संयुक्त करके उनको सिद्ध किया करते हैं, वे कभी दुःख और दरिद्रता आदि दोषों को नहीं देखते॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

ते केन किं साधयेयुरित्युपदिश्यते।

अन्वय:

ये मेधाविनो नासत्याभ्याम्परिज्मानं सुखं रथं तक्षन् रचयन्ति ते सबर्दुघां धेनुं तक्षन् विकाशयन्ति॥३॥

पदार्थान्वयभाषाः - (तक्षन्) छेदनादिना रचयन्ति। अत्र लडर्थे लङडभावश्च। (नासत्याभ्याम्) नित्याभ्यामग्निजलाभ्याम् (परिज्मानम्) परितः सर्वतोऽजन्ति मार्गं येन तम्। अयं परिपूर्वकाद् ‘अज’धातोः श्वन्नुक्षन्० इत्यादिना निपातितः (सुखम्) शोभनं खं विस्तृतमन्तरिक्षं स्थित्यर्थं यस्मिंस्तम् (रथम्) रमन्ते क्रीडन्ति येन तं विमानादियानसमूहम् (तक्षन्) सूक्ष्मं कुर्वन्ति। अत्र लडर्थे लङडभावश्च। (धेनुम्) उपदेशश्रवणलक्षणां वाचम्। धेनुरिति वाङ्नामसु पठितम्। (निघं०१.११) (सबर्दुघाम्) बर्बति येन ज्ञानेन तद्वः, समानं बर्दोग्धि प्रपूरयति यया ताम्। अत्र बर्ब गतौ इत्यस्माद्धातोः कृतो बहुलम् इति करणे क्विप्। राल्लोप इति बकारलोपः। समानस्य छन्दः० अनेन समानस्य सकारादेशः। ततः दुहः कप् घश्च। (अष्टा०३.२.७०) इति दुहः कप् प्रत्ययो हस्य स्थाने घादेशश्च॥३॥
भावार्थभाषाः - यैर्मनुष्यैः सोपवेदान् वेदानधीत्य तज्जन्यविज्ञानेनाग्न्यादिपदार्थानां गुणान् विदित्वा कलायन्त्रयुक्तेषु यानेषु तान् याजयित्वा विमानादीनि साध्यन्ते ते नैव कदाचिद् दुःखदारिद्र्ये प्रपश्यन्तीति॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे अंग उपांगासह तसेच उपवेदाबरोबर वेदाचे अध्ययन करून त्यांच्यापासून प्राप्त झालेल्या विज्ञानाने अग्नी इत्यादी पदार्थांच्या गुणांना जाणतात व कलायंत्रांनी सिद्ध होणाऱ्या विमान इत्यादी रथांमध्ये (वाहनांमध्ये) संयुक्त करून ते तयार करतात, ते दुःख व दारिद्र्य इत्यादींपासून दूर असतात. ॥ ३ ॥