वांछित मन्त्र चुनें

अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ। व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

अंग्रेज़ी लिप्यंतरण

avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau | vayaṁ sahasram ṛṣibhiḥ sanema vidyāmeṣaṁ vṛjanaṁ jīradānum ||

मन्त्र उच्चारण
पद पाठ

अवो॑चाम। नि॒ऽवच॑नानि। अ॒स्मि॒न्। मान॑स्य। सू॒नुः। स॒ह॒सा॒ने। अ॒ग्नौ। व॒यम्। स॒हस्र॑म्। ऋषि॑ऽभिः। स॒ने॒म॒। वि॒द्याम॑। इ॒षम्। वृ॒जन॑म्। जी॒रऽदा॑नुम् ॥ १.१८९.८

ऋग्वेद » मण्डल:1» सूक्त:189» मन्त्र:8 | अष्टक:2» अध्याय:5» वर्ग:11» मन्त्र:3 | मण्डल:1» अनुवाक:24» मन्त्र:8


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे मनुष्यो ! जो (मानस्य) विज्ञानवान् जन का (सूनुः) सन्तान है उसके प्रति (अस्मिन्) इस (सहसाने) सहन करते हुए (अग्नौ) अग्नि के समान विद्वान् के निमित्त (निवचनानि) परीक्षा से निश्चित किये वचनों को जैसे (वयम्) हम लोग (अवोचाम) उपदेश करें वा (ऋषिभिः) वेदार्थ के जाननेवालों से (सहस्रम्) असंख्य सुख का (सनेम) सेवन करें वा (इषम्) इच्छासिद्धि (वृजनम्) बल और (जीरदानुम्) जीवन को (विद्याम) प्राप्त होवें वैसा तुम भी आचरण करो ॥ ८ ॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाप्ताः शान्ता उपदेष्टारः श्रोतृभ्यः सत्यान्युपदिश्य सुखिनः कुर्वन्ति तैः सहान्ये विद्वांसो जायन्ते तथोपदिश्य श्रुत्वा विद्यावृद्धिं सर्वे कुर्वन्तु ॥ ८ ॥अस्मिन् सूक्ते परमेश्वरविद्वच्छासकगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इत्येकोननवत्युत्तरं शततमं सूक्तमेकादशो वर्गश्च समाप्तः ॥ अस्मिन् सूक्ते परमेश्वरविद्वच्छासकगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इत्येकोननवत्युत्तरं शततमं सूक्तमेकादशो वर्गश्च समाप्तः ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

हे मनुष्या यो मानस्य सूनुस्तमस्मिन् सहसानेऽग्नौ निवचनानि यथा वयमवोचाम ऋषिभिः सहस्रं सनेम इषं वृजनं जीरदानुं च विद्याम तथा यूयमप्याचरत ॥ ८ ॥

पदार्थान्वयभाषाः - (अवोचाम) उपदिशेम (निवचनानि) परीक्षया निश्चितानि धर्म्यवचांसि (अस्मिन्) (मानस्य) विज्ञानवतो जनस्य (सूनुः) (सहसाने) सहमाने (अग्नौ) पावकइव विदुषी (वयम्) (सहस्रम्) असङ्ख्यम् (ऋषिभिः) वेदार्थविद्भिः सह (सनेम) संभजेम (विद्याम) (इषम्) (वृजनम्) (जीरदानुम्) ॥ ८ ॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाप्ताः शान्ता उपदेष्टारः श्रोतृभ्यः सत्यान्युपदिश्य सुखिनः कुर्वन्ति तैः सहान्ये विद्वांसो जायन्ते तथोपदिश्य श्रुत्वा विद्यावृद्धिं सर्वे कुर्वन्तु ॥ ८ ॥अस्मिन् सूक्ते परमेश्वरविद्वच्छासकगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इत्येकोननवत्युत्तरं शततमं सूक्तमेकादशो वर्गश्च समाप्तः ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे आप्त, शांत उपदेशक विद्वान लोक श्रोत्यांना सत्य उपदेश करून सुखी करतात, त्यांच्याबरोबर इतर विद्वानही असतात तसा उपदेश करून दुसऱ्याचे श्रवण करून सर्वांनी विद्यावृद्धी करावी. ॥ ८ ॥