असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कम्। ते स॑प्स॒रासो॑ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam | te sapsarāso janayantābhvam ād it svadhām iṣirām pary apaśyan ||
असू॑त। पृश्निः॑। म॒ह॒ते। रणा॑य। त्वे॒षम्। अ॒यासा॑म्। म॒रुता॑म्। अनी॑कम्। ते। स॒प्स॒रासः। अ॒ज॒न॒य॒न्त॒। अभ्व॑म्। आत्। इत्। स्व॒धाम्। इ॒षि॒राम्। परि॑। अ॒प॒श्य॒न् ॥ १.१६८.९
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
एषामयासां मरुतां पृश्निरिव त्वेषमनीकं महते रणायासूत ते आदिदिषिरां स्वधामजनयन्त सप्सरासः सन्तोऽभ्वं पर्य्यपश्यन् ॥ ९ ॥