प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑। सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥
pra taṁ vivakmi vakmyo ya eṣām marutām mahimā satyo asti | sacā yad īṁ vṛṣamaṇā ahaṁyuḥ sthirā cij janīr vahate subhāgāḥ ||
प्र। तम्। वि॒व॒क्मि॒। वक्म्यः॑। यः। ए॒षा॒म्। म॒रुता॑म्। म॒हि॒मा। स॒त्यः। अस्ति॑। सचा॑। यत्। ई॒म्। वृष॑ऽमनाः। अ॒ह॒म्ऽयुः। स्थि॒रा। चि॒त्। जनीः॑। वह॑ते। सु॒ऽभा॒गाः ॥ १.१६७.७
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
य एषां मरुतां वक्म्यः सत्यो महिमास्ति तं यद्योऽहंयुर्वृषमना ईं सचा स्थिरा चित् सुभागा जनीर्वहते तं चाहं प्रविवक्मि ॥ ७ ॥