च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन्। य॒दावाख्य॑च्चम॒साञ्च॒तुर॑: कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या॑नजे ॥
cakṛvāṁsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan | yadāvākhyac camasāñ caturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje ||
च॒कृ॒ऽवांसः॑। ऋ॒भ॒वः॒। तत्। अ॒पृ॒च्छ॒त॒। क्व॑। इत्। अ॒भू॒त्। यः। स्यः। दू॒तः। नः॒। आ। अज॑गन्। य॒दा। अ॒व॒ऽअख्य॑त्। च॒म॒सान्। च॒तुरः॑। कृ॒तान्। आत्। इत्। त्वष्टा॑। ग्नासु॑। अ॒न्तः। नि। आ॒न॒जे॒ ॥ १.१६१.४
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे चकृवांस ऋभवो यो दूतो न आजगन् स्य सः क्वाभूदिति तदित्तमेव विदुषः प्रति भवन्तोऽपृच्छत। यस्त्वष्टा यदा चमसानवाख्यत्तदा स चतुरः कृतान् विजानीयादात्स इत् ग्नास्वन्तर्यानानि न्यानजे ॥ ४ ॥