ते सू॒नव॒: स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये। स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥
te sūnavaḥ svapasaḥ sudaṁsaso mahī jajñur mātarā pūrvacittaye | sthātuś ca satyaṁ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ ||
ते। सू॒नवः॑। सु॒ऽअप॑सः। सु॒ऽदंस॑सः। म॒ही इति॑। ज॒ज्ञुः॒। मा॒तरा॑। पू॒र्वऽचि॑त्तये। स्था॒तुः। च॒। स॒त्यम्। जग॑तः। च॒। धर्म॑णि। पु॒त्रस्य॑। पाथः। प॒दम्। अद्व॑याविनः ॥ १.१५९.३
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
ये स्वपसः सुदंससः पूर्वचित्तये जज्ञुस्ते मही मातरा जानीयुः। हे पितरौ यौ युवां स्थातुश्च जगतश्च धर्मण्यद्वयाविनः पुत्रस्य सत्यं पदं पाथस्तौ सूनवः सततं सेवेरन् ॥ ३ ॥