पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने। स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥
patnīva pūrvahūtiṁ vāvṛdhadhyā uṣāsānaktā purudhā vidāne | starīr nātkaṁ vyutaṁ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ||
पत्नी॑ऽइव। पू॒र्वऽहू॑तिम्। व॒वृ॒धध्यै॑। उ॒षसा॒नक्ता॑। पु॒रु॒धा। विदा॑ने॒ इति॑। स्त॒रीः। न। अत्क॑म्। विऽउ॑तम्। वसा॑ना। सूर्य॑स्य। श्रि॒या। सु॒ऽदृशी॑। हिर॑ण्यैः ॥ १.१२२.२
स्वामी दयानन्द सरस्वती
अब स्त्री-पुरुषों के व्यवहार को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
अथ दम्पत्योर्व्यवहारमाह ।
हे सति स्त्रि त्वं पत्नीव ववृधध्यै पूर्वहूतिं पतिं स्वीकृत्य पुरुधा विदाने उषासानक्तेव वर्त्तस्व सूर्यस्य हिरण्यैः श्रिया च सदृशी अत्कमिव व्युतं वसाना सती स्तरीर्न सततं भव ॥ २ ॥