त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान्। यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥
tvam indra naryo yām̐ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān | yaṁ te kāvya uśanā mandinaṁ dād vṛtrahaṇam pāryaṁ tatakṣa vajram ||
त्वम्। इ॒न्द्र॒। नर्यः॑। यान्। अवः॑। नॄन्। तिष्ठ॑। वात॑स्य। सु॒ऽयुजः॒। वहि॑ष्ठान्। यम्। ते॒। का॒व्यः। उ॒शना॑। म॒न्दिन॑म्। दात्। वृ॒त्र॒ऽहन॑म्। पार्य॑म्। त॒त॒क्ष॒। वज्र॑म् ॥ १.१२१.१२
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे इन्द्र काव्य उशना नर्यस्त्वं यान् वहिष्ठान् वातस्य सुयुजो नॄनवस्तैः सह धर्मे तिष्ठ यस्ते यं वृत्रहणं मन्दिनं पार्यं जनं दात् यः शत्रूणामुपरि वज्रं ततक्ष तेनापि सह धर्मेण वर्त्तस्व ॥ १२ ॥