Devata: रुद्रा देवताः
                Rishi: परमेष्ठी प्रजापतिर्वा देवा ऋषयः
                Chhanda: निचृदार्ष्यनुष्टुप्
                Swara: गान्धारः
                  
               
             
           
          ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑। तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥६१ ॥
               Pad Path 
              
             
              ये। ती॒र्थानि॑। प्र॒चर॒न्तीति॑ प्र॒ऽचर॑न्ति। सृ॒काह॑स्ता॒ इति॑ सृ॒काऽह॑स्ताः। नि॒ष॒ङ्गिणः॑। तेषा॑म्। स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्रऽयोज॒ने। अव॑। धन्वा॑नि। त॒न्म॒सि॒ ॥६१ ॥
                Yajurveda » Adhyay:16» Mantra:61
              
            
            
        