Go To Mantra
Select by Archik

न꣡ स꣢ꣳस्कृ꣣तं꣡ प्र मि꣢꣯मीतो꣣ ग꣢मि꣣ष्ठा꣡न्ति꣢ नू꣣न꣢म꣣श्वि꣡नोप꣢꣯स्तुते꣣ह꣢ । दि꣡वा꣢भिपि꣣त्वे꣢ऽव꣣सा꣡ग꣢मिष्ठा꣣ प्र꣡त्यव꣢꣯र्त्तिं दा꣣शु꣢षे꣣ श꣡म्भ꣢विष्ठा ॥१७५३॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

न सꣳस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥१७५३॥

Mantra Audio
Pad Path

न । स꣣ꣳस्कृत꣢म् । स꣣म् । कृत꣢म् । प्र । मि꣣मीतः । ग꣡मि꣢꣯ष्ठा । अ꣡न्ति꣢꣯ । नू꣣न꣢म् । अ꣣श्वि꣡ना꣢ । उ꣡प꣢꣯स्तुता । उ꣡प꣢꣯ । स्तु꣣ता । इह । दि꣡वा꣢꣯ । अ꣡भिपित्वे꣢ । अ꣢भि । पित्वे꣢ । अ꣡व꣢꣯सा । आ꣡ग꣢꣯मिष्ठा । आ । ग꣣मिष्ठा । प्र꣡ति꣢꣯ । अ꣡व꣢꣯र्तिम् । दा꣣शु꣡षे꣢ । श꣡म्भ꣢꣯विष्ठा । शम् । भ꣣विष्ठा ॥१७५३॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1753 | (Kauthum) 8 » 3 » 15 » 2 | (Ranayaniya) 19 » 4 » 3 » 2