इ꣡न्द्र꣢श्च वायवेषा꣣ꣳ सो꣡मा꣢नां पी꣣ति꣡म꣢र्हथः । यु꣣वा꣡ꣳ हि यन्तीन्द꣢꣯वो नि꣣म्न꣢꣫मापो꣣ न꣢ स꣣꣬ध्र्य꣢꣯क् ॥१६२९॥
(If you are unable to read the above font properly, please upgrade your operating system.)इन्द्रश्च वायवेषाꣳ सोमानां पीतिमर्हथः । युवाꣳ हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥१६२९॥
इ꣡न्द्रः꣢꣯ । च꣣ । वा꣡यो꣢꣯ । एषाम् । सो꣡मा꣢꣯नाम् । पी꣣ति꣢म् । अ꣣र्हथः । युवा꣢म् । हि । य꣡न्ति꣢꣯ । इ꣡न्द꣢꣯वः । नि꣣म्न꣢म् । आ꣡पः꣢꣯ । न । स꣣꣬ध्र्य꣢क् । स꣣ । ध्र्य꣣꣬क् ॥१६२९॥