वा꣣वृधानः꣡ शव꣢꣯सा꣣ भू꣡र्यो꣢जाः꣣ श꣡त्रु꣢र्दा꣣सा꣡य꣢ भि꣣य꣡सं꣢ दधाति । अ꣡व्य꣢नच्च व्य꣣न꣢च्च꣣ स꣢स्नि꣣ सं꣡ ते꣢ नवन्त꣣ प्र꣡भृ꣢ता꣣ म꣡दे꣢षु ॥१४८४॥
(If you are unable to read the above font properly, please upgrade your operating system.)वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥१४८४॥
वा꣣वृधानः꣢ । श꣡व꣢꣯सा । भू꣡र्यो꣢꣯जाः । भू꣡रि꣢꣯ । ओ꣣जाः । श꣡त्रुः꣢꣯ । दा꣣सा꣡य꣢ । भि꣣य꣡स꣢म् । द꣣धाति । अ꣡व्य꣢꣯नत् । अ । व्य꣣नत् । च । व्यन꣢त् । वि꣣ । अन꣢त् । च꣣ । स꣡स्नि꣢꣯ । सम् । ते꣣ । नवन्त । प्र꣡भृ꣢꣯ता । प्र । भृ꣣ता । म꣡दे꣢꣯षु ॥१४८४॥