प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये । यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
We found 10 references of पुष्टिगुः in Rigveda
प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये । यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥
यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः । आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥
अनेहसं वो हवमानमूतये मध्व: क्षरन्ति धीतय: । आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥
आ न: सोमे स्वध्वर इयानो अत्यो न तोशते । यं ते स्वदावन्त्स्वदन्ति गूर्तय: पौरे छन्दयसे हवम् ॥
प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः । उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥
यद्ध नूनं परावति यद्वा पृथिव्यां दिवि । युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥
रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति । येभिर्नि दस्युं मनुषो निघोषयो येभि: स्व: परीयसे ॥
एतावतस्ते वसो विद्याम शूर नव्यसः । यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥
यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि । यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥
We found 2 references of पुष्टिगुः in Atharvaveda
प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये। यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः। गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥