Go To Mantra

व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्व॑: पुरु॒स्पृह॑: । नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥

English Transliteration

vayaṁ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ | ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo ||

Pad Path

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वसो॒ इति॑ । वस्वः॑ । पु॒रु॒ऽस्पृहः॑ । नि । नेदि॑ष्ठऽतमाः । इ॒षः । स्याम॑ । सु॒म्नस्य॑ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ॥ ९.९८.५

Rigveda » Mandal:9» Sukta:98» Mantra:5 | Ashtak:7» Adhyay:4» Varga:23» Mantra:5 | Mandal:9» Anuvak:6» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (वृत्रहन्) हे अविद्याविनाशक परमात्मन् ! “यदवृणोत्तद् वृत्रमज्ञानम्” नि.। २। १९। (वयम्) हम (अस्यते) आपके (स्याम) वशवर्त्ती हों (वसो) हे सर्वाधार परमात्मन् ! (वस्वः) आप सब प्रकार के ऐश्वर्य्यों के स्वामी हैं, (पुरुस्पृहः) सबके उपास्य देव हैं, (नि नेदिष्ठतमाः) आप सर्वान्तर्यामी हैं, (अध्रिगो) हे ज्ञानगमन परमात्मन् ! आप (इषः) ऐश्वर्य्यों के और (सुम्नस्य) सुख के भोक्ता हो ॥५॥
Connotation: - परमात्मा की उपासना द्वारा मनुष्य अविद्या का नाश करके विद्या का प्रकाश करता है ॥५॥
Reads times

ARYAMUNI

Word-Meaning: - (वृत्रहन्) हे अविद्यान्तकपरमात्मन् ! (वयं) वयं सर्वे (अस्य, ते) तव वशे (स्याम) भवेम (वसो) हे सर्वाश्रय ! (वस्वः) सर्वविधैश्वर्याधिपो भवान् (पुरुस्पृहः) अनेकजनकाम्यः (नि नेदिष्ठतमाः) सर्वसन्निकटवर्ती च (अध्रिगो) हे ज्ञानगमनपरमात्मन् ! भवान् (इषः) ऐश्वर्यस्य (सुम्नस्य) सुखस्य च भोक्तास्ति ॥५॥