Go To Mantra

परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्व॑: सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि॑म् । आ यस्मि॒न्गाव॑: सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी॑मभिः ॥

English Transliteration

pari dyukṣaṁ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim | ā yasmin gāvaḥ suhutāda ūdhani mūrdhañ chrīṇanty agriyaṁ varīmabhiḥ ||

Pad Path

परि॑ । द्यु॒क्षम् । सह॑सः । प॒र्व॒त॒ऽवृध॑म् । मध्वः॑ । सि॒ञ्च॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् । आ । यस्मि॑न् । गावः॑ । सु॒हु॒त॒ऽआदः॑ । ऊध॑नि । मू॒र्धन् । श्री॒णन्ति॑ । अ॒ग्रि॒यम् । वरी॑मऽभिः ॥ ९.७१.४

Rigveda » Mandal:9» Sukta:71» Mantra:4 | Ashtak:7» Adhyay:2» Varga:25» Mantra:4 | Mandal:9» Anuvak:4» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (सहसः) क्षमाशील वह परमात्मा (मध्वः) सबको आनन्द देनेवाला (द्युक्षं) ज्ञानरूपी दीप्तियों में स्थिर जीव को (हर्म्यस्य सक्षणिं) जो शत्रुओं को हनन करनेवाला है तथा (पर्वतावृधं) जो हिमालय की तरह अपने सहायक लोगों से वृद्धि को प्राप्त है, ऐसे जीवात्मा को (परिषिञ्चति) परमात्मा ज्ञानरूपी सिञ्चन करता है तथा वह ऐसे जीवात्मा को ज्ञानदृष्टि से परिपूर्ण करता है, (यस्मिन्) जिसमें (गावः) इन्द्रियें (सुहुतादः) अपने शब्द-स्पर्शादि भोग्य विषयों को भोगने की शक्ति रखती हैं और (वरीमभिः) अपने महत्त्व से (ऊधनि) पयोधारपात्र के समान (अग्रियं) उस अग्रणी पुरुष के (मूर्धन्) मूर्धा को (आ श्रीणन्ति) अभिषेक द्वारा शुद्ध करती हैं ॥४॥
Connotation: - परमात्मा उपासक को ज्ञानी तथा विज्ञानी बनाकर उसका उद्धार करता है ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (सहसः) क्षमी (मध्वः) सर्वानन्ददः परमेश्वरः (द्युक्षम्) ज्ञानदीप्तिषु निश्चलस्य जीवस्य (हर्म्यस्य सक्षणिम्) ये शत्रवः सन्ति तेषां घातकोऽस्ति। तथा (पर्वतावृधम्) यो हिमवानिव स्वसहायभूतैर्जनैरभ्युदयङ्गतः एतादृशं जीवात्मानं (परिषिञ्चति) ज्ञानवृष्ट्या सिञ्चनं करोति। (यस्मिन्) यत्र (गावः) इन्द्रियाणि (सुहुतादः) स्वीयभोग्यविषयाणां शब्दस्पर्शादीनां भोगकर्तृशक्तिमन्ति सन्ति। अथ च (वरीमभिः) स्वमहत्त्वेन (ऊधनि) पयोधारपात्रमिव (अग्रियम्) तस्याग्रणीपुरुषस्य (मूर्धन्) मूर्धानम् (आश्रीणन्ति) अभिषेकेण पवित्रयन्ति ॥४॥