अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी । इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥
abhi hi satya somapā ubhe babhūtha rodasī | indrāsi sunvato vṛdhaḥ patir divaḥ ||
अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ । इन्द्र॑ । असि॑ । सु॒न्व॒तः । वृ॒धः । पतिः॑ । दि॒वः ॥ ८.९८.५