त्वं हि न॑: पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ । अधा॑ ते सु॒म्नमी॑महे ॥
tvaṁ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha | adhā te sumnam īmahe ||
त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् । म॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ । अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥ ८.९८.११