शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ । स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥
śevāre vāryā puru devo martāya dāśuṣe | sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ ||
शेवा॑रे । वार्या॑ । पु॒रु । दे॒वः । मर्ता॑य । दा॒शुषे॑ । सः । सु॒न्व॒ते । च॒ । स्तु॒व॒ते । च॒ । रा॒स॒ते॒ । वि॒श्वऽगू॑र्तः । अ॒रि॒ऽस्तु॒तः ॥ ८.१.२२
SHIV SHANKAR SHARMA
कर्मों की अपेक्षा से वही परमात्मा सबको यथायोग्य फल देता है, इससे यह शिक्षा देते हैं।
ARYAMUNI
अब परोपकारार्थ प्रार्थना करनेवाले को फल कथन करते हैं।
HARISHARAN SIDDHANTALANKAR
सुन्वन्-स्तुवन् [दाश्वान्]
SHIV SHANKAR SHARMA
कर्माण्यपेक्ष्य स हि परमात्मा सर्वेषां फलदातास्तीति शिक्षते।
ARYAMUNI
अथ परार्थं प्रार्थयितुः फलं कथ्यते।
